सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 149, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 149

मुक्तायुक्तिः । १०८
वैश्यः स्यात् शुक्ल-पीतस्तु कोमलः कोल-सन्निभः ।
शूद्रः स्यात् शुक्लनीलस्तु कर्कशः श्याम एव च ॥ ६१ ॥
तथा च,—
कोलजं कोलसदृशं तद्दंष्ट्रा सदृशच्छविः ।
अलभ्यं मनुजैरम्यं मौक्तिकं पुण्यवर्ज्जितैः ॥ ६२ ॥
ये कम्बवः शार्ङ्गि सुखावमर्श पूतस्य शङ्ख प्रवरस्य गोत्रे ।
स्यान्मौक्तिकानामिह तेषु जन्म तल्लक्षणं सम्प्रतिकीर्त्तयामः ॥ ६३ ॥
स्वयोनि मध्यच्छवि-तुल्यवर्णं शङ्खादृहत्कोलफलप्रमाणम् ॥ ६४ ॥
तथाच,—
वर्षोपल समं दीप्त्या पाञ्चजन्य-कुलोद्भवम् ॥
कपोताण्ड-प्रमाणं तत् अतिकान्ति-मनोहरम् ॥ ६५ ॥
अश्विन्यादिक नक्षत्रे ये जाताः कम्बवः शुभाः ।
मौक्तिकं तेषु जातं हि सप्तविंशति-भेदभाक् ॥ ६६ ॥
शुक्लाशुक्लाः पीतरक्ता नीलालोहित-पिञ्जराः ।
आकर्व्वुराः पाटलाश्च नववर्णाः प्रकीर्त्तिताः ॥ ६७ ॥
महन्मध्य लघून्मानैः सप्तविंशतिधा भवेत् ।
क्रमतस्तेषु विज्ञेयं नक्षत्रेपु मनीषिभिः ॥ ६८ ॥
पाठीन पृष्ठस्य समानवर्णं मीनात् सुवृत्तं लघु नातिसूक्ष्मम् ।
उत्पद्यते वारिचराननेषु मीनाश्चते मध्यचराः पयोधेः ॥ ६९ ॥
तल्लक्षणं यथा,—
गुञ्जाफलकाय-स्थौल्यं मौक्तिकं तिमिजं लघु * ।
पाटलापुष्प-संकाशं अल्पकान्ति सुवर्त्तुलम् ॥ ७० ॥
वातपित्त-कफद्वन्द्व-सन्निपात-प्रभेदतः ।
सप्त प्रकृतयो मीना सप्तधा तेन मौक्तिकम् ॥ ७१ ॥
————————————————————————————————————————————————

  • “तिमिजं मत्स्याक्षिनिभं वृहत्पवित्रं बहुगुणञ्च” । इति वराहमिहिरोये ।