सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 148, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 148

१०८ युक्तिकल्पतरौ—
तथापि, गारुड़े,—
नाप्येति मेघ-प्रभवं धरित्रीं वियद्गतं तद्विबुधा हरन्ति ।
अर्चिंप्रभानाहृत-दिग्विभाग मादित्यवद्दुः खविभाव्य विम्बम् ॥५१॥
तेजस्तिरस्कृत्य हुतासनेन्दु, नक्षत्रताराग्रह-सम्भवञ्च ।
दिवा यथा दीप्तिकरं तथैव ; तमोऽवगाढाष्वपि तन्निशासु ॥ ५२ ॥
विचित्ररत्नद्युति-चारुतोय-चतुः समुद्रा भवनाभिरामाः ।
मूर्खं नवास्यादितिनिश्चयो मे ; कृत्स्ना मही तस्य सुवर्ण-पूर्णा ॥५३॥
हीनोऽपि यस्तल्लभते कथञ्चिद्विपाक योगान्महतः शुभस्य ।
सपत्नहीनः पृथिवीं समग्रां भुनक्ति तत्तिष्ठति यावदेव ॥ ५४ ॥
न केवलन्तच्छुभकृन्नृपस्य भाग्यैः प्रजानामपि जन्म तस्य ।
तद्योजनानां परितः शतस्य सर्वाननर्थान् विमुखी करोति ॥५५॥
जलज्योतिर्मरुज्जानां मेघानान्त्रिविधम्भवॆत् ।
जलाधिकेऽधिकं स्वच्छं कोमलं गुरु कान्तिमत् ॥ ५६ ॥
ज्योतिषं कान्तिमद्वृत्तं दुर्निरोध्यं रविप्रभम् ।
कान्तिमत् कोमलं वृत्तं मारुतं विमलं लघु ॥ ५७ ॥
गारुड़े,—
वराहदंष्ट्रा प्रभवं वरिष्ठम्, *
तस्यैव दंष्ट्राङ्कुर-तुल्य वर्णम् ।
क्वचित् कथञ्चित् स भुवः प्रदेशे;
प्रजायते शूकरवह्निशिष्टः ॥ ५८ ॥
ब्रह्मादि जातिभेदेन वराहोऽपि चतुर्विधः ।
तेषु जाता भवेन्मुक्ता समासेन चतुर्विधा ॥ ५९ ॥
ब्राह्मणः शुक्लवर्णस्तु शूद्रमन्ते च लभ्यते ।
क्षत्रियो रक्तवर्णस्तु स्पर्शे कर्कश एव च ॥ ६० ॥

  • 'दंष्ट्रामूले मणिकान्ति-सप्रभं बहुगुणञ्च वाराहम्' । इति बृहत्संहितायाम् ।