योगिनी हृदयम् (अमृतानन्दनाथ विमर्शिनी एवं पं. व्रजवल्लभ द्विवेदी सविस्तार सटीक)
Yogini Hridayam with Amritanandanatha Dipika by Vraj Vallabha Dwivedi
अमृतानन्दनाथ (भाष्यकार: पं. व्रजवल्लभ द्विवेदी) द्वारा
पृष्ठ 450, कुल 485 में से
संदर्भ में पढ़ें४०० परापञ्चाशिका
[ १शुद्धविद्यादिकं सर्वं सादाख्ये२ पक्षसंग्रहात् ॥
मध्यशक्तिपरामर्शं इति वापि लयक्रमः ।
३अन्यः पक्षोऽपि यः कश्चित् प्रमाणं चेन्न४ बाधते ॥ ]
५कुतश्चिन्मथिते धाम्नि ६दीप्ते केनापि हेतुना ।
७सर्वं हविरिदं जुह्वन्न दारिद्र्येण पीड्यते ॥४८॥
पञ्चपञ्चात्मकं विश्वं पञ्चस्पन्दविजृम्भितम् ।
संकोचयन् परामर्शात्८ सामान्यस्पन्दकेवलः९ ॥४९॥
अहमिति प्रलयं कुर्वन्निदमः प्रतियोगिनः ।
पराक्रमपरो भुङ्क्ते स्वभाव१०मशिवापहम् ॥५०॥
११इति षडधिकत्रिंशद्भेद१२प्रसक्तजगतनुः
प्रसरति १३महाशक्त्युल्लेखविचित्रमहापटी ।
जयति बहुशः स्पन्दाकारा१४ परा चिदनुत्तरा
विमृशत जनाः किं१५ नो भूयः स्वभावविजृम्भितम् ॥ ५१ ॥
इति श्री१६मदाद्यनाथविरचिता अनुत्तरप्रकाशपञ्चाशिका
समाप्ता ॥
•
१. पङ्क्तित्रयमधिकम्-स. अक. घ. । २. ख्यं-अघ. । ३. इतः पूर्वम्-'अन्ते
शक्तिपरामर्शं इति वाग्विलयक्रमः' इत्यधिकं-अघ. । ४. नैव-अघ. । ५. कुत्रचिन्-अघ.
म. । ६. कृत्वे-स. कल्पिते-अक. । ७. विश्वं-अख. ग. म. । ८. र्शन्-स., र्शी-अक.,
मर्शो-अघ. । ९. लम्-मृ. म. । १०. मशुभाव(प)हम्-अघ. । ११. श्लोक एष नास्ति-
स. अक. । १२. प्रवृत्त-अख. ग. म., भेदाप्र-ल. । १३. निजा शक्तिः पर्यायचित्रम-
अख. ग. घ. म. । १४. रां परां-अख. ग. । १५. किं तद् यत्नः स्वरूप-अख. ग., किं
भयं नः-ल., किं तदुत्तरस्वरूप-म. । १६. श्रीआदिनाथविरचितेऽनुत्तरप्रकाशे रुद्रयामलो-
न्तर्गते श्रीपरापञ्चाशिका सम्पूर्णा-ल. ।
Courtesy: Shri Tarun Dwivedi, Surviving Son of Late Vraj Vallabh Dwivediji (15 Jul 1926 - 17 Feb 2012)