योगिनी हृदयम् (अमृतानन्दनाथ विमर्शिनी एवं पं. व्रजवल्लभ द्विवेदी सविस्तार सटीक)
Yogini Hridayam with Amritanandanatha Dipika by Vraj Vallabha Dwivedi
अमृतानन्दनाथ (भाष्यकार: पं. व्रजवल्लभ द्विवेदी) द्वारा
पृष्ठ 449, कुल 485 में से
संदर्भ में पढ़ेंआद्यनाथविरचिता ३९९
सूर्यचन्द्रमसो¹रन्तश्चरन्ति² स्थितिहेतवः ।
³तथा विमर्शवपुषः सर्गस्याद्याः⁴ कलाः स्मृताः ॥३९॥
द्विधेयं⁵ मातृका देवी बीजयोन्यात्मना स्थिता ।
नित्यप्रवृत्ता⁶ शृङ्गाटवपु⁷र्विश्वस्य जन्मभूः ॥४०॥
हृदयं बीजमेतस्यां⁸ सारं९ यत्तत्परं¹⁰ महः ।
वटबीजे यथा वृक्षस्तथात्र¹¹ निहितं जगत् ॥४१॥
विचार्यमाणे¹२ नैवेदं कारणादतिरिच्यते ।
मृदादेः¹³ कलशादीनां तत्त्वं नान्यन्निरूपणे¹⁴ ॥४२॥
इत्याहुस्तत्त्ववादिन्यः श्रुतीनामन्तिमा गिरः ।
१५इह सर्वं सदेवाग्र आसीदिति विनिश्चयात् ॥४३॥
सत्तावाचिनि बीजेऽस्मिन् ¹⁶भाति मायान्तिमं जगत् ।
१७विलुप्तप्रत्ययाकार¹⁸मेवैतत् परिशिष्यते ॥४४॥
ततो ज्ञानक्रियासारा¹९ विद्येश्वरसदाशिवाः ।
शक्तिशूले²⁰ विलीयन्ते²¹ चतुर्दशकलात्मनि ॥४५॥
ऊर्ध्वाधः सृष्टिवपुषि सर्वं लीनमतः परम् ।
इत्थं परस्यां संवित्तो सर्वं संकुचितं क्रमात् ॥४६॥
अथ वाङ्मनसातीते यत्र क्वापि निरञ्जने ।
षट्त्रिंशत्तत्त्वलहरीकलहातीतगोचरे ॥
विश्वात्मनि महा²²मन्त्रस्वभावे²३ सा विलीयते ॥४७॥
१. मसो स्वान्तश्चरन्तो स्थितिहेतवे-मु., मसोऽचोक्ताश्चरन्ति तिथिहेतवः-स.
अक. घ. । २. श्चरन्तः-म. । ३. यथा-मु. ल. । ४. स्यादौ-ल., स्यादिकला स्मृता-
स अक., सर्गः स्यात् कुलशास्त्रतः-अख. ग. म. । ५. धेत्थं-अख. ग. म. । ६. प्रवृत्त-
मु. स. अक., प्रवृत्ति-अघ. । ७. वपुषश्चास्य जन्मनि-अख. ग. म. । ८. मेतस्य-
अघ. म. । ९. सारमेतत्-अक., सारं यत्परमं-अघ. । १०. परापरम्-अख. ग. म. ।
११. तथास्मिन्-स. अक., तथा संनिहितं-अख. ग. घ. म. । १२. मार्णं-अक. ख. ग. ल.
म., माणेमेवेदं कारणान्नातिरिच्यते-अघ. । १३. मृदादि-स. अक. । १४. पणेः-अख.
ग. म. । १५. इदं सर्वं सदेवासीदग्रे इ-मु., सदेव सोम्येदमग्र-स. अक. । १६. सादि-
अक. ल., मातृ-म. । १७. अलुप्त-स. अक., विशद-अख. म. । १८. मेतत् स-मु., रं
परैश्च-अघ., रवृत्तं न-म. । १९. धारा-अख. ग. म. । २०. त्रिशूले ली-मु. म., स्थूले
वि-अक. । २१. लिम्पन्ते-अख. ग. । २२. मन्त्रे-मु. स., तन्त्रे-ल. । २३. स्वरूपोऽस्य-
अघ. ।
Courtesy: Shri Tarun Dwivedi, Surviving Son of Late Vraj Vallabh Dwivediji (15 Jul 1926 - 17 Feb 2012)