याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 750, कुल 782 में से
संदर्भ में पढ़ें३६४ याज्ञवल्क्यस्मृतिः
वटार्ककाश्मर्यपर्णेषु कुम्भी तिन्दुकपर्णयोः ।
कोविदारकरञ्जेषु न भुञ्जीत कदाचन ॥
समलाः सद्य उच्यन्ते यतयः कांस्य-भोजिनः ।
कांस्यकस्य तु यत्पापं गृहस्थस्य तथैव च ॥
कांस्य-भोजी यतिः सर्वं प्राप्नुयात् किल्बिषं तयोः ।
भुक्त्वा पात्रं यतिर्नित्यं क्षालयेन्मन्त्रपूर्वकम् ॥
न दुष्येतास्य तत्पात्रं यज्ञेषु चमसा इव ॥ इत्यादि ।
श्लो० ६७—ब्रह्म-पुराण में भी कहा गया है :-
एकस्मादेव चैतन्याज्जाताः क्षेत्रज्ञजातयः ।
लौहज्वलनसंदीप्ता मरीचय इवोद्गताः ॥
इसके अतिरिक्त श्रुतिसहस्र इसका समर्थक है ।
श्लो० ७०- "तस्मादेतस्माद्वा आत्मन आकाशः सम्भूतः आकाशाद्वायुः”
इत्यादि श्रुति इसके प्रमाण है ।
श्लो० ७४-आदिमिच्छतः- अत एव श्रुति भी कहती है :- "तदैक्षत
बहुस्यां प्रजायेय” इत्यादि ।
श्लो० ७५-मास्यर्बुदं द्वितीये तु-यहाँ सुश्रुतसंहिता की उक्ति
ग्राह्य है:-
“द्वितीये मास एव हि गर्भस्य सम्भवतः पूर्वं शिरः
सम्भवतीत्याह शौनकः, शिरोमूलत्वाद् देहेन्द्रियाणाम् ।
पाणि-पादमिति मार्कण्डेयः, तन्मूलत्वाच्चेष्टायाः गर्भस्य ।
नाभिरिति पाराशर्यः, ततो हि वर्धते देहो देहिनः ।
हृदयमिति कृतवीर्यः, बुद्धेर्मनसश्च स्थानत्वात् ।
मध्य-शरीरमिति सुभूतिर्गौतमः, तन्निबद्धत्वात् ।
सर्वं-गात्रस्य सर्वाङ्गानि युगपत्सम्भवन्ति” इति (धन्वन्तरिः । )
श्लो० ७९-दोषम्—अत एव श्रुति भी है :-
“दौर्हृदाऽदानात् काणं कुब्जं वामनं वा जनयति, तस्मात्सा यदिच्छेत्त-
त्तस्यै प्रदापयेत्, वीर्यवन्तं चिरायुषं जनयति” ।
श्लो० ८४- षट् त्वचो धारयन्ति-सुश्रुतसंहिता आदि में तो सात
त्वचाओं का निर्देश है। उनके नाम हैं-अवभासिनी, रोहिता, श्वेता, ताम्रा,
वेदिनी, रोहिणी, मांसधरा ।
श्लो० ११७- आत्मनस्त जगत्सर्वम् - इसमें निम्न-लिखित श्रुति
प्रमाण है :-