याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 725, कुल 782 में से
संदर्भ में पढ़ेंटिप्पणी ( नोट्स ) ६६६
अथवा—ब्रीहयः शालयो मुद्गाः गोधूमाः सर्षपास्तिलाः ।
यवाश्चोषधयः सप्त विपदो घ्नन्ति धारिताः ॥
श्लो० २९५—गृहयज्ञं समाचरेत्—इस यज्ञ के लिए उत्तरायण आदि
कालनियम अनपेक्षित है । अत एव दक्ष का वचन है :—
नैमित्तिकानि काम्यानि निपतन्ति यथा यथा ।
तथा तथैव कार्याणि न कालस्तु विधीयते ॥
श्लो० ३१८—निबन्धम्—आयस्थाने प्रतिनियतवस्तुदानम्—शूल-
पाणि । अस्मिन् ग्रामे प्रतिक्षेत्रं क्षेत्रस्वामिना एतद्धनमस्मै प्रत्यब्दं प्रतिमासं
वा देयम् इत्यादिनियमः—अपरार्कं ।
श्लो० ३२४—अकूटैः—
न कूटैरायुधैर्हन्यात् युध्यमानो रणे रिपून् ।
न कर्णिभिर्नापि दिग्धैः नाग्निज्वलिततेजनैः ॥
श्लो० ३२७—स्नात्वा—स्नानग्रहणं सकलमाध्याहिकोपलक्षणम्—
ऐसा अपरार्क का मत है ।
श्लो० ३४४—सुरक्षितम्—अत एव मनु का वचन है—
यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।
स कृत्स्नां पृथिवीम् भुंक्ते कोशहीनोऽपि पार्थिवः ॥
श्लो० ३४९—दैवे पुरुषकारे च—दैव = पूर्वजन्मकृत-कर्म-फल, पुरुष-
कार = ऐहिकपुरुष प्रयत्न । अत एव व्यासने कहा है—
दैवमात्मकृतं विद्यात् कर्म यत्पौर्वदेहिकम् ।
स्मृतः पुरुषकारश्च क्रियते यदिहापरम् ॥
श्लो० ३५०—संयोगे = साहित्ये । अत एव मत्स्यपुराण में कहा
गया है :—
दैवं पुरुषकारश्च कालश्च पुरुषोत्तम ।
त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलाय वै ॥
श्लो० ३५२—मित्रलब्धिः—मित्र का लक्षण निम्नलिखित है :—
धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च ।
अनुरक्तं स्थिरारम्भं लघु मित्रं प्रशस्यते ॥
श्लो० ३५८—धर्माद्विचलितः—अत एव दक्ष का कथन है :—
पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ।
श्वपादेनाङ्कयित्वा तं राजा शीघ्रं विवासयेत् ॥