याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 683, कुल 782 में से
संदर्भ में पढ़ेंभाषा—सान्तान के ( गोमूत्र आदि छः ) द्रव्यों से पृथक्-पृथक्
( अर्थात् एक एक दिन एक-एक को पीकर ) छः दिन बिताकर एक
दिन उपवास करने पर एक सप्ताह का महासान्तपन कृच्छ्र व्रत बताया
गया है ॥ ३१५ ॥
इति महासांतपनातिसांतपने ।
पर्णकृच्छ्राख्यं व्रतमाह—
पर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः ।
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ ३१६ ॥
पलाशोदुम्बरारविन्दश्रीवृक्षपर्णानामेकैक्रेन कथितमुदकं प्रत्यहं पिबेत् ।
कुशोदकं चैकस्मिन्नहनीति पञ्चाहसाध्यः पर्णकृच्छ्रः । यदा तु पर्णादीनामेकी-
कृतानां क्वाथस्त्रिरात्रान्ते पीयते तदा पर्णकूर्चः । यथाह यमः—'एतान्येव
समस्तानि त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा पिबेदद्भिः पर्णकूर्चोऽभिधीयते ॥'
इति । यदा तु बिल्वादिफलानि प्रत्येकं कथितानि मासं पीयन्ते तदा फलकृच्छा-
दिव्यपदेशं लभन्ते । यथाह मार्कण्डेयः—'फलैर्मासेन कथितः फलकृच्छ्रो
मनीषिभिः । श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माद्यैरपरस्तथा ॥ मासेनामलकैरेवं
श्रीकृच्छ्रमपरं स्मृतम् । पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते ॥ मूलकृच्छ्रः
स्मृतो मूलस्तोयकृच्छ्रो जलेन तु ॥' इति ॥ ३१६ ॥
भाषा—पलाश, उदुम्बर ( गूलर ), कमल, बिल्वपत्र में से एक-
एक को एक-एक दिन पानी में उबालकर वही जल पीवे और फिर एक दिन
( पांचवे दिन ) कुशा का जल पीवे तो पर्णकृच्छ्र व्रत कहलाता है ॥ ३१६ ॥
इति पर्णकृच्छ्र एकादशविधः ।
तप्तकृच्छ्रमाह —
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥ ३१७ ॥
दुग्धसर्पिरुदकानां तप्तानामेकैकं प्रतिदिवसं प्राश्यापरेद्युरुपवसेत् । एष
दिवसचतुष्टयसंपाद्यो महातप्तकृच्छ्रः । एभिरेव समस्तैः सोपवासैर्द्विरात्रसंपाद्यः
सान्तपनवत्तप्तकृच्छ्रः । मनुना तु द्वादशरात्रनिर्वर्त्योऽभिहितः ( ११।२१४ )—
'तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् । प्रतिद्व्यहं पिबेदुष्णान्सकृत्स्नायी
समाहितः ॥' इति । क्षीरादिपरिमाणं तु पराशरेणोक्तं द्रष्टव्यम् ।—'अपां पिबेत्तु
१. प्रत्यहाभ्यस्तैः । २. पर्णकृच्छ्र उदाहृतः ।
४० या०