सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 616, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 616

५६० याज्ञवल्क्यस्मृतिः

साराणां स्तेयं कृत्वाऽन्यवेश्मतः । चरेत्सान्तपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥'
(मनुः ११।१६४) इत्यनेनाल्पप्रयोजनत्रपुसीसादिद्रव्यापहारविशेषेण स्तेनसा-
मान्योपपातकप्रायश्चित्तापवादः । इदं च चान्द्रायणनिमित्तभूतार्धतृतीयशतमू-
ल्यस्य पञ्चदशांशाधैत्रपुसीसाद्यपहारे प्रायश्चित्तम्, चान्द्रायणपञ्चदशांशत्वात्तस्य ।
तथा द्रव्यविशेषेणाप्युपपातकसामान्यप्राप्तव्रतापवादः—'भक्ष्यभोज्यापहरणे
यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥' (मनुः
११।१६५) इति । एकवारभोजनपर्याप्तभक्ष्यभोज्यापहार इदम् । द्वित्रिवारभोज-
नपर्याप्ताहारे त्रिरात्रम् । यथाह पैठीनसिः—'भक्ष्यभोज्यान्नस्योदरपूरणमात्रहरणे
त्रिरात्रमेकरात्रं वा पञ्चगव्याहरता' इति । यानादीनामप्येतत्साहचर्यादेतावन्मू-
ल्यानामेवापहरणे एतावत्प्रायश्चित्तम् । सर्वत्रापि ह्रियमाणद्रव्यन्यूनाधिकभावेन
प्रायश्चित्तस्यापि लघुगुरुभावः कल्पनीयः । यथा 'तृणकाष्ठद्रुमाणां च शुष्कान्नस्य
गुडस्य च । तैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥' (मनुः ११।१६६)
इति । एषां च तृणादीनां भक्ष्यादित्रिगुणत्रिरात्रप्रायश्चित्तस्य दर्शनात् तन्त्रिगुण-
मूल्यार्धाणामेतत्प्रायश्चित्तम् । तथा—'मणिसुक्ताप्रवालानां ताम्रस्य रजतस्य
च । अयस्कांस्योपलानां च द्वादशाहं कंदन्नता ॥' (मनुः ११।१६७) इति ।
अत्रापि भक्ष्यादिद्वादशगुणप्रायश्चित्तदर्शनात् तन्मूल्यद्वादशगुणमूल्यमणिमुक्ताद्य-
पहार एतत्प्रायश्चित्तं द्रष्टव्यम् । तथा—'कार्पासकीटजौर्णानां द्विखुरैकखुरस्य च ।
पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः ॥' (मनुः ११।१६८) इति ।
अत्रापि भक्ष्यादित्रिगुणप्रायश्चित्तदर्शनात्तत्त्रिगुणमूल्यानामपहार एवैतत्प्रायश्चित्तं
ज्ञेयम् । ह्रियमाणद्रव्यन्यूनाधिकभावेन प्रायश्चित्ताल्यत्वमहत्त्वं कल्प्यमेव । इदं
च स्तेयप्रायश्चित्तमपहृतद्रव्यदानोत्तरकालमेव द्रष्टव्यम् । यथाह विष्णुः—
'दत्त्वैवापहृतं द्रव्यं स्वामिने व्रतमाचरेत्' इति । इति स्तेयम् । ऋणापाकरणे
च 'पुत्रपौत्रैर्ऋणं देयम्' (व्य० ५०) इति विहितं तस्यानपाकरणे, तथा
वैदिकस्य च 'जायमानो वै ब्राह्मणः' इत्येतद्वाक्येनर्णसंस्तुतयज्ञादिकरणे च
'उपपातकशुद्धिः स्यादेवम्' (प्रा० २६५) इत्यादिनापपातकसामान्यविहितं
व्रतचतुष्टयं शक्त्यपेक्षया योज्यम् । प्रायश्चित्तान्तरमप्यत्र मनुनोक्तम् (११।
२७)—'इष्टिं वैश्वानरीं चैव निर्वपेदब्दपर्यये । लुप्तानां पशुसोमानां निष्कृत्यर्थ-
मसंभव ॥' इति । अब्दपर्यये संवत्सरान्ते । इति ऋणानपाकरणम् ।

तथाधिकृत्यस्यानाहिताग्नित्वेऽप्येतदेव व्रतचतुष्टयं वत्सरादूर्ध्वमापदि शक्त्य-
पेक्षया योज्यम् । अनापदि तु मानवं त्रैमासिकम् । अर्वाक्पुनर्वत्सरात् कार्ष्णा-
जिनिविशेषमाह—'काले त्वाधाय कर्माणि कुर्याद्विप्रो विधानतः । तदकुर्वंश्चिरा-


१. र्णानामेव । २. कणाम्नाता । ३. क्लृप्तानाम् ।