सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 615, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 615

प्रायश्चित्ताध्यायः ५५६
ऽभक्षोऽहोरात्रमुपवसेदश्वमेधावभृथं गच्छेद् व्रात्यस्तोमेन वा यजेत' इति । अत्रेयं
व्यवस्था—यस्योपनेत्राद्यभावेन तत्कालातिक्रमस्तस्य याज्ञवल्कीयव्रतानामन्यतमं
शक्त्यपेक्षया भवति । अनापद्यतिक्रमे तु मानवं त्रैमासिकम् । तत्रैव पञ्चदश-
वर्षादूर्ध्वमपि कियत्कालातिक्रमे तूह्दालकव्रतं व्रात्यस्तोमो वेति । येषां तु पित्राद-
योऽप्यनुपनीतास्तेषामापस्तम्बोक्तम् (ध० १।१।३२, ५;१।२।५।६)—'यस्य
पितापितामहावनुपेतौ स्यातां तस्य संवत्सरं त्रैविद्यकं ब्रह्मचर्यम् । यस्य प्रपिता-
महादेर्नानुस्मर्यत उपनयनं तस्य द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यम्' इति व्रात्यता ।
तथा स्तेयेऽप्युपपात कसाधारणप्राप्तव्रतचतुष्टयापवादकं प्रायश्चित्तं मनुनोक्तम्
(११।१६२)—'धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः । सजातीयगृहा-
देव कृच्छ्रार्धेन विशुद्ध्यति ॥' इति । द्विजोत्तमस्य सजातीयो ब्राह्मण एवातो
विप्रपरिग्रहे ब्राह्मणस्य हर्तुरिदम् । क्षत्रियादेस्त्वल्पं कल्प्यम् । 'अष्टापाद्यं स्तेय-
किल्बिषं शूद्रस्य द्विगुणोत्तराणीतरेषां प्रतिवर्णं विदुषोऽतिक्रमे दण्डभूयस्त्वम्'
( ।३।१५-१७) इति क्षत्रियादेरपहर्तुर्दण्डाल्पत्वस्य दर्शनात् । तथा—'विप्रे
तु सकलं देयं पादोनं क्षत्रिये स्मृतम्' इति पादपादहान्या प्रायश्चित्तदर्शनात् ।
तथा क्षत्रियादिपरिग्रहेणापि दण्डानुसारेण प्रायश्चित्ताल्पत्वं कल्प्यम् । अतः क्षत्रि-
यपरिग्रहे चौर्ये षाण्मासिकम् । वैश्यपरिग्रहे त्रैमासिकं गोवधव्रतम् । शूद्रपरिग्रहे
चान्द्रायणं कल्प्यम् । एवमुत्तरत्राप्यूहनीयम् ।-इदं च दशकुम्भधान्यापहारवि-
षयम् । अधिके तु—'धान्यं दशभ्यः कुम्भेभ्यो हरंतो दम उत्तमः । पलसहस्रा-
दधिके वधः' इति वधदर्शनात् । कुम्भश्च पञ्चसहस्रपलपरिमाणः । धान्यसाहच-
र्यादन्नधने चैतावद्धान्यपरिमित्ते वेदितव्ये । 'अन्न'शब्देन तन्दुलादिकमभिधीयते ।
'धन'शब्देन ताम्ररजतादिकम् । इदं तु प्रायश्चित्तं कामकारविषयम् । अकामतस्तु
त्रैमासिकं गोवधव्रतम् । तथा—'मनुष्याणां च हरणे स्त्रीणां क्षेत्रगृहस्य च ।
कूपवापीजलानां च शुद्धिश्चान्द्रायणेन तु ॥' (मनुः ११।१६३ ) इति । सार्धश-
तद्वयपणलभ्यजलापहार इदं चान्द्रायणं प्राप्तमपीतरगोवधव्रतन्निवृत्त्यर्थं विधीयते;
'तावन्मूल्यजलापहारे पानीयस्य तृणस्य च । तन्मूल्याद् द्विगुणो दण्डः' इति
पञ्चशतदण्डविधानात्तावत्परिमाणदण्डचान्द्रायणयोर्गोवधादौ सहचरितत्वात् ।
तथा 'कृच्छातिकृच्छ्रैन्द्वयोः पणपञ्चशतं तथा' इति चान्द्रायणविषये पञ्चशतप-
णदण्डविधानाच्च । एतच्च क्षत्रियादिद्रव्यापहारे द्रष्टव्यम् ; ब्राह्मणसंबन्धिद्रव्या-
पहारे तु 'निक्षेपस्यापहरणे नराश्वरजतस्य च । भूमिवज्रमणीनां च रुक्म-
स्तेयसमं स्मृतम् ॥' (मनुः ११।५७ ) इति द्रष्टव्यम् । तथा—'द्रव्याणामल्प-
१. यस्योपनयने आपद्भावेन । २. कृच्छाब्देन विशुद्धयति । ३. अष्टपाद्यम् ।
४. हरतोऽभ्यधिको वधः ।