याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 520, कुल 782 में से
संदर्भ में पढ़ें४६४ \quad याज्ञवल्क्यस्मृतिः
कथं पुनरसावात्मा ध्यातव्य इत्यत आह —
अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।
ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥ १११ ॥
आत्मव्यतिरिक्तविषयेभ्यो मनोबुद्धिस्मृतीन्द्रियाणि प्रत्याहृत्य आत्मै-
कविषयाणि कृत्वा आत्मा ध्येयः । योऽसौ प्रभुर्निर्वातस्थप्रदीपवद्दीप्यमानो
निष्प्रकम्पो हृदि तिष्ठति । एतदेव तस्य ध्येयत्वं यच्चित्तवृत्तेर्बहिर्विषयावभास-
तिरस्कारेणात्मप्रवणता नाम शरावसंपुटनिरुद्धप्रभाप्रतानप्रसरस्येव प्रदीपस्यैकनि-
ष्ठत्वम् ॥ १११ ॥
भाषा—मन, बुद्धि और स्मृति इन्द्रियों को विषयों से मोड़कर एका-
ग्रचित्त हो आत्मा का ध्यान करना चाहिए; जो हृदय में दीपक के समान
स्थित है ॥ १११ ॥
यस्य पुनश्चित्तवृत्तिर्निराकारालम्बनतया समाधौ नाभिरमते तेन शब्दब्रह्मो-
पासनं कार्यमित्याह—
१यथाविधानेन पठन्सामगायमविच्युतम् ।
सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति ॥ ११२ ॥
स्वाध्यायावगतमार्गानतिक्रमेण सामगायं सामगानम् । साम्नो गाना-
त्मकत्वेऽपि गायमिति विशेषणं प्रगीतमन्त्रव्युदासार्थम् । अविच्युतमस्खलितं
सावधानः सामध्वन्यनुस्यूतात्मैकाग्रचित्तवृत्तिः पठंस्तदभ्यासवशात् तत्र निष्णातः
शब्दाकारशून्योपासनेन परं ब्रह्माधिगच्छति । तदुक्तम्—'शब्दब्रह्मणि निष्णातः
परं ब्रह्माधिगच्छति' इति ॥ ११२ ॥
भाषा—(समाधि करने में असमर्थ होने पर) विधिपूर्वक नियमित
रूप से एवं सावधान होकर सामगान का पाठ करने वाला एवं उसके अभ्यास
में तत्पर रहने वाला ब्रह्म को प्राप्त करता है ॥ ११२ ॥
यस्य पुनर्वैदिक्यां गीतौ चित्तं नाभिरमते तेन लौकिकगीतानुस्मृतात्मोपासनं
कार्यमित्याह—
४अपरान्तकमुल्लोप्यं मद्रकं ५प्रैंकरीं तथा ।
६ओवेणकं सरोबिन्दुमुत्तरं गीतकानि च ॥ ११३ ॥
७ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका ।
गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम् ॥ ११४ ॥
१ यथाविधानेन पठन्साम गायत्यविस्वरम् । २. स्तथाभ्यासात्प ।
३. अनुस्यूतात्मकै । ४. अपरान्तिक । ५. मकरीं । ६. श्रैवेणुकं
सुराविन्दमु । ७. ऋग्भाथाः । ८. ब्रह्मगीतिकाः । ९. गायन्नेतत्त ।