सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 515, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 515

प्रायश्चित्ताध्यायः ४५६
नाभिप्रभृतीनि दश प्राणस्य स्थानानि । समाननाम्नः पवनस्य सकलाङ्ग-
संचारित्वेऽपि नाभ्यादिस्थानविशेषवाचोक्तिः प्राचुर्याभिप्राया^१ ॥ ९३ ॥
भाषा—नाभि, ओज, गुदा, शुक्र, रुधिर, दोनों शङ्खक, मूर्धा, कण्ठ और
हृदय ये (दस) प्राण के निवास स्थान हैं ॥ ९३ ॥
प्राणायतनानि प्रपञ्चयितुमाह—
वपा वसावहननं नाभिः क्लोमं^२ यकृत्प्लीहा ।
क्षुद्रान्त्रं वृक्कौ^३ बस्तिः पुरीषाधानमेव च ॥ ९४ ॥
आमाशयोऽथ हृदयं स्थूलान्त्रं गुद एव च ।
उदरं च गुदौ^४ कोष्ठ्यौ विस्तारोऽयमुदाहृतः ॥ ९५ ॥
वपा प्रसिद्धा, वसा मांसस्नेहः, अवहननं फुप्फुसः, नाभिः प्रसिद्धा,
प्लीहा आयुर्वेदप्रसिद्धा, तौ च मांसपिण्डाकारौ स्तः सव्यकुक्षिगतौ ॥ यकृत्
कालिका, ^२क्लोम मांसपिण्डस्तौ च दक्षिणकुक्षिगतौ, क्षुद्रान्त्रं ह्रस्वान्त्रम्,
वृक्कौ हृदयसमीपस्थौ मांसपिण्डौ, बस्तिमूत्राशयः, पुरीषाधानं पुरीषाशयः,
आमाशयोऽपक्वान्नस्थानम् , हृदयं हृत्पुण्डरीकम् ; स्थूलान्त्रगुदोदराणि प्रसि-
द्धानि, बाह्याद् गुदवलयादन्तर्गूदवलये द्वे, तौ च गुदौ कोष्ठ्यौ कोष्ठे नाभेरधः-
प्रदेशे भवौ । अयं च प्राणायतनस्य विस्तार उक्तः । पूर्वश्लोके तु संक्षेपः ।
अत एव पूर्वश्लोकोक्तानां केषांचिदिह पाठः ॥ ९४-९५ ॥
भाषा—वपा, वसा, फुप्फुस, नाभि, क्लोम (दाहिनी कोख के मांस-
पिण्ड ), यकृत्, प्लीहा, क्षुद्रांत्र (हृदय की भाँती), दो वृक्कक (हृदय के
समीप स्थित मांसपिण्ड), मूत्राशय, मलाशय, आमाशय, हृदय, मोटी आँत,
गुँदा, उदर, गुदा का भीतरी भाग, (नाभि के नीचे के) दो कोष्ठ—ये प्राण-
स्थानों के विस्तार हैं ॥ ९४-९५ ॥
पुनः प्राणायतनप्रपञ्चार्थमाह—
कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ ।
कर्णौ शङ्खौ भ्रुवौ दन्तवेष्टावोष्ठौ ककुन्दरे^५ ॥ ९६ ॥
वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ ।
उपजिह्वास्फिजौ बाहू जङ्गोरुषु च पिण्डिका^७ ॥ ९७ ॥
तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके ।
अंबटश्चैवमेतानि स्थानान्यत्र शरीरके ॥ ९८ ॥
१. भिप्रायेण । २. क्लोमा । ३. वृक्कको । ४. कोष्ठौ विस्तरोऽय .
५. दन्तावेष्टावेष्टौ कुकुन्दरे । ६. संघातकौ । ७. पिण्डिकाः । ८. चिबुकं ।
९. अवटु ।