याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 486, कुल 782 में से
संदर्भ में पढ़ें४३० | याज्ञवल्क्यस्मृतिः
भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम् ।
क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥ ३४ ॥
किंच, अकार्यकारिणां निषिद्धसेविनां दानमेव मुख्यं शुद्धिकारणं, यथा
व्याख्यास्यति 'पात्रे धनं वा पर्याप्तं दत्त्वा' इति । नद्याः निदाघादावल्पतोया-
या अमेध्योपहततीरायाः कूलकषवर्षाऽम्बुप्रवाहवेगः शुद्धिकृत् । 'शोधनीयस्य
द्रव्यस्य मृच्च तोयं च शुद्धिकृत्', यथेह भणितम् (आ० १९१) - 'अमेध्याक्तस्य
मृत्तोयैः शुद्धिर्गन्धापकर्षणात्' इति । संन्यासः प्रव्रज्या द्विजन्मनां मानसाप-
चारे शुद्धिकृत् । तपो वेदाभ्यासो वेदविदां शुद्धिकारणम् । कृच्छ्रादि तु
सर्वसाधारणं न वेदविदामेव । क्षान्तिरुपशमो विदुषां वेदार्थविदाम् ।
वर्ष्मणः शरीरस्य जलम् । प्रच्छन्नपापानामविख्यातदोषाणां अघमर्षणा-
दिसूक्तजपः शुद्धिकारणं शुद्धिसाधनम् । मनः सदसत्संकल्पात्मकं तस्यासत्स-
ङ्कल्पत्वादशुद्धस्य सत्यं साधुसंकल्पः शोधकम् । 'भूत'शब्देन तद्विकारभूतो
देहेन्द्रियसङ्घो लक्ष्यते । तत्र 'स्थूलोऽहं कृशोऽहं काणोऽहं बधिरोऽहम्' इत्येवं
तदभिमानित्वेन योऽयमात्मा वर्तते स भूतात्मा, तस्य तपोविद्ये शुद्धिनि-
मित्ते । 'तपः'शब्देनानेकजन्मस्वेकस्मिन्नपि वा जन्मनि जाग्रत्स्वप्नसुषुप्त्यवस्था-
स्वात्मनो योऽयमन्वयः, शरीरादेश्च व्यतिरेकः सोऽभिधीयते । यथा (तै० उ०
३।२।१) 'तपसा ब्रह्म विजिज्ञासस्व' इति पञ्चकोशव्यतिरेकप्रतिपादनपरे वाक्ये ।
'विद्या'शब्देन चौपनिषदं 'अस्थूलमनण्वह्रस्वम्' (बृ० उ० ३।९।२६) 'असङ्गो
हि' (बृ० उ० २।५।१४) 'अयमात्मा' (बृ० उ० ३।८।८) इत्यादि
त्वंपदार्थनिरूपणविषया वाक्यजन्यं ज्ञानमुच्यते । एताभ्यामस्य शुद्धिः । शरीरादि-
व्यतिरेकबुद्धेः संशयविपर्ययरूपत्वेनाशुद्धायाः प्रमाणरूपं ज्ञानं विशोधनम् ।
क्षेत्रज्ञस्य तपोविद्याविशुद्धस्य त्वंपदार्थभूतस्य ४'तत्त्वमसि' (छा० उ० ६।८।७)
इत्यादिवाक्यजन्यात्साक्षात्काररूपादीश्वरज्ञानात् ५परमा विशुद्धिर्मुक्तिलक्षणा ।
यथैताः शुद्धयः परमपुरुषार्थास्तल्लघुक्षतरा कालशुद्धिरपीत्येवं प्रशंसार्थं भूतात्मादि-
विशुद्धयभिधानम् ॥ ३२-३४ ॥
भाषा - निषिद्ध कार्य करने वालों की शुद्धि का कारण दान होता
है, नदियों की शुद्धि करने वाला उनका प्रवाह वेग होता है; अशुद्ध वस्तु
की मिट्टी और जल से, द्विजातियों की संन्यास से, वेद जानने वालों की
तप (वेदाभ्यास) से, विद्वानों की क्षमा से, शरीर की जल से, गुप्त पापों
१. शोधनम् । २. न्द्रियसंबन्धो । ३. जाग्रत्स्वप्न । ४. तत्त्वमसी-
त्यादि । ५. परमात्मशुद्धिः ।