याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 485, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४२६
रजसा च परिप्लुताम् ॥ श्वकुक्कुटवराहांश्च ग्राम्यान्संस्पृश्य मानवः । सचैलः
सशिरः स्नात्वा तदानीमेव शुद्ध्यति ॥' इति । 'अशुद्धान्स्वयमप्येतानशुद्धस्तु
यदि स्पृशेत् । विशुद्धयत्युपवासेन तथा कृच्छ्रेण वा पुनः ॥' इति । साविका प्रस-
वस्य कारयित्री । कृच्छ्रः श्वपाकादिविषयः श्वादिखु तूपवास इति व्यवस्था ॥३०॥
भाषा—रजस्वला स्त्री और अशुचि व्यक्ति (शव, चण्डाल, पतित,
सूतिका, मृत्यु के कारण आशौची) द्वारा छू जाने पर स्नान करे; इन रजस्वला
स्त्री आदि द्वारा स्पृष्ट व्यक्ति से छू जाने पर आचमन करे और 'आपो हिष्ठा'
आदि तीन मन्त्रवाक्यों का जाप करके एक बार गायत्री का जप करे ॥३०॥
अधुना कालशुद्धौ दृष्टान्तत्वेन द्रव्यशुद्धिप्रकरणोक्तांस्तथैवात्र प्रकरणे वक्ष्य-
माणांश्च शुद्धिहेतूननुक्रामति—
कालोऽग्निः कर्म मृद्वायुर्मनो ज्ञानं तपो जलम् ।
पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः ॥ ३१ ॥
यथाऽग्न्यादयोऽमी सर्वे स्वविषये शुद्धिहेतवस्तथा कालोऽपि दशरात्रादिकः ।
शास्त्रागम्यत्वाच्छुद्धिहेतुरवस्य । अग्निस्तावच्छुद्धिहेतुः । यथाभ्यधायि (आ०
१८७) 'पुनःपाकान्महीमयम्' इति । कर्म च शुद्धिनिमित्तं, यथा वक्ष्यति
(प्रा० २४४) 'अश्वमेधावभृथस्नानात्' इति । तथा मृदपि शुद्धिकारणं, यथा
कथितम् (आ० १८९)—'सलिलं भस्म मृद्वापि प्रक्षेप्यं विशुद्धये' इति ।
वायुरपि शुद्धिषहेतुः, यथोदीरितं (आ० १९७) 'मारुतेनैव शुद्ध्यन्ति' इति ।
मनोऽपि वाचः शुद्धिसाधनं, यथाऽनायि 'मनसा वा इषिता वाग्वदति' इत्यादि ।
ज्ञानं चाध्यात्मिकं बुद्धिशुद्धौ निदानं, यथाभिधास्यति (प्रा० ३४) 'क्षेत्र-
ज्ञस्येश्वरज्ञानात्' इति । तपश्च कृच्छ्रादि, यथा वदिष्यति (प्रा० २६०) 'प्राजा-
पत्यं चरेत्कृच्छ्रं समो वा गुरुतल्पगः' इत्यादि । तथा जलमपि शरीरादेः, यथा
जल्पिष्यति (प्रा० ३३) 'वर्ष्मगो जलम्' इति । पश्चात्तापोऽपि शुद्धिजनकः,
यथा गदितं 'ख्यापनेनानुतापेन' इति । निराहारोऽपि शुद्धयुपादानं, यथा
व्याहरिष्यति (प्रा० ३०१) 'त्रिरात्रोपोषितो जप्त्वा' इत्यादि ॥ ३१ ॥
भाषा—काल, अग्नि, कर्म, मिट्टी, वायु, मन, ज्ञान, तपस्या, जल,
पश्चात्ताप और उपवास—ये सभी शुद्धि के कारण होते हैं ॥ ३१ ॥
अकार्यकारिणां दानं वेगो नद्याश्च शुुद्धिकृत् ।
शोध्यस्य मृच्च तोयं च संन्यासो ३ वै द्विजन्मनाम् ॥ ३२ ॥
तपो वेदविदां क्षान्तिर्विदुषां वर्ष्मणो जलम् ।
जपः प्रच्छन्नपापानां मनसः सत्यमुच्यते ॥ ३३ ॥
१. जले इत्यादि । २. नद्यास्तु । ३. सोऽथ ।