सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 479, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 479

प्रायश्चित्ताध्यायः ४२३
मण्डलानि लक्ष्यन्ते । तत्पालनाधिकृतानां क्षत्रियादीनामभिषिक्तानां नाशौचम् ।
तैराशौचं न कार्यमित्यर्थः । तथा विद्युद्धतानां गोब्राह्मणरक्षणार्थं विपन्नानां
च संबन्धिनो ये सपिण्डास्तैरप्याशौचं न कार्यम् । यस्य च मन्त्रपुरोहितादे-
र्भूमिपोऽनन्यसाध्यमन्त्राभिचारादिकर्मसिद्ध्यर्थमाशौचाभावमिच्छति तेनापि
न कार्यम् । अत्र च महीपतीनां यदसाधारणत्वेन विहितं प्रजापरिरक्षणं तच्चेन
दानमानसत्कारव्यवहारदर्शनादिना विना न संभवति तत्रैवाशौचाभावो न पुनः
पञ्चमहायज्ञादिष्वपि । तथा च मनुः (५।९५) - 'राज्ञो महात्मिके स्थाने
सद्यःशौचं विधीयते । प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥' इति ।
गौतमेनाप्युक्तम् ( १४।४५ )--'राज्ञां च कार्याविघातार्थम्' इति राजभृत्या-
देरप्याशौचं न भवति । तथाह प्रचेताः- 'कारवः शिल्पिनो वैद्या दासीदासास्त-
थैव च । राजानो राजभृत्याश्च सद्यःशौचाः प्रकीर्तिताः ॥' इति । कारवः सूप-
कारादयः । शिल्पिनश्चित्रकारचैलनिर्णेजकादयः । अयं चाशौचाभावः किंविषय
इत्यपेक्षायां कर्मनिमित्तैः शब्दैस्तत्तदसाधारणस्य कर्मणो बुद्धिस्थत्वात्तत्रैव द्रष्ट-
व्यः । अत एव विष्णुः (२२।४८-५१) -'न राज्ञां राजकर्मणि न व्रतिनां व्रते न
सत्रणां सत्रे न कारूणां कारुकर्मणि इति प्रतिनियतविषयमेवाशौचाभावं दर्शयति ।
शातातपीयेऽप्युक्तम्- 'मूल्यकर्मकराः शूद्रा दासीदासास्तथैव च । स्नाने शरीर-
संस्कारे गृहकर्मण्यदूषिताः ॥' इति । इयं च दासादिष्वद्धिरपरिहरणीयतया प्राप्त-
स्पर्शविषयेत्यनुसंधेयम् । अत एव स्मृत्यन्तरम् - 'सद्यःस्पृश्यो गर्भदासो भक्त-
दासस्तथाह्नश्शुचिः ।' तथा- 'चिकित्सको यत्कुरुते तदन्येन न शक्यते ॥ तस्मा-
द्विकित्सकः स्पर्शो शुद्धो भवति नित्यशः ॥' इति ॥ २७ ॥
भाषा - राजाओं का, बिजली गिरने से मरे हुए व्यक्तियों का, गौ और
ब्राह्मण की रक्षा के लिए युद्ध में मारे गये पुरुषों का आशौच नहीं होता ।
जिस व्यक्ति का आशौच राजा न होने देना चाहे उसका भी आशौच
नहीं होता ॥ २७ ॥
ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् ।
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ २८ ॥
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्यपि हि कष्टायां सद्यः शौचं विधीयते ॥ २९ ॥
किंच, ऋत्विजो वरणसंभृता वैतानोपासनाकर्तृविशेषाः । दीक्षया संस्कृता
दीक्षितास्तेषां यज्ञियं यज्ञे भवं च कर्म कुर्वतां 'सद्यः शौचं विधीयत' इति
१. रक्षार्थं शायनं । २. भृत्या वैद्या दासास्तथैव । ३. वरणकरण-
संगता । वरणाभरणसंभृता ।