याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 478, कुल 782 में से
संदर्भ में पढ़ें५२२ याज्ञवल्क्यस्मृतिः
भाषा—औरस के अतिरिक्त अन्य ( क्षेत्रज, दत्तक आदि ) पुत्रों के
जन्म एवं मृत्यु पर, और दूसरे पुरुष पर आश्रित रहने वाली पत्नियों की
तथा स्वदेश के राजा की मृत्यु पर एक दिन-रात आशौच होता है ॥ २५ ॥
अनुगमनाशौचमाह—
ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः कचित् ।
अनुगम्याम्भसि स्नात्वा १स्पृष्ट्वाऽग्निं घृतभुक्शुचिः ॥ २६ ॥
ब्राह्मणेन असपिण्डेन द्विजो विप्रादिः शूद्रो वा प्रेतो नानुगन्तव्यः । यदि
स्नेहादिनानुगच्छति तदाऽम्भसि तडागादिस्थे स्नात्वाग्निं स्पृष्ट्वा घृतं प्राश्य
शुचिर्भवेत् । अस्य च घृतप्राशनस्य भोजनकार्यविधाने प्रमाणाभावान्न भोजन-
प्रतिषेधः । इदं समानोत्कृष्टजातिविषयम् । यथाह मनुः ( ५।१०३ )—'अनु-
गम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च । स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य
विशुद्ध्यति ॥' इति । ज्ञातयो मातुलपिण्डाः । इतरेषां तु विहितत्वान्न दोषः ।
निकृष्टजात्यनुगमने तु स्मृत्यन्तरोक्तं द्रष्टव्यम् । तत्र शूद्रानुगमने—'प्रेतीभूतं तु
यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः । अनुगच्छेन्नियमानं स त्रिरात्रेण शुद्धयति ॥ त्रिरात्रे
तु ततस्तीर्णे नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध-
यति ॥' इति पराशरोक्तम् । क्षत्रियानुगमने त्वहोरात्रम् ; 'मानुषास्थि स्निग्धं
स्पृष्ट्वा त्रिरात्रमाशौचं अस्निग्धे त्वहोरात्रं शवानुगमने चैकम्' इति वसिष्ठो-
क्तम् । वैश्यानुगमने पुनः पक्षिणी । तथा क्षत्रियस्यान्तरवैश्यानुगमने अहो-
रात्रं एकान्तरशूद्रानुगमने पक्षिणी वैश्यस्य शूद्रानुगमने एकाह इत्यूहनीयम् ॥
तथा रोदनेऽपि पारस्करेणोक्तम्—'मृतस्य बान्धवैः सार्धं कृत्वा तु परिदेवनम् ।
वर्जयेत्तदहोरात्रं दानं श्राद्धादिकर्म च ॥' इति । तथाऽलंकरणमपि न कार्यम् ;
'कृच्छ्रपादोसपिण्डस्य प्रेतालंकरणे कृते । अज्ञानादुपवासः स्यादाशक्तौ स्नाव-
मिष्यते ॥' इति शङ्खेन प्रायश्चित्तस्याम्नातत्वात् ॥ २६ ॥
भाषा—ब्राह्मण को भिन्नगोत्र के द्विज या शूद्र वर्ण के मृतक के साथ
नहीं जाना चाहिए । यदि ( स्नेहवश ) जावे तो जल में स्नान करके अग्नि
का स्पर्श करके तथा घृत खाकर शुद्ध हो जाता है ॥ २६ ॥
सपिण्डाशौचे कचिदपवादमाह—
महीपतीनां नाशौचं हतानां विद्युता तथा ।
गोब्राह्मणार्थे संग्रामे यस्य चेच्छति २भूमिपः ॥ २७ ॥
यद्यपि 'मही'शब्देन कृत्स्नं भूगोलकमभिधीयते तथाप्यत्र सकलायाः क्षिते-
रेकभर्तृकत्वानुपपत्तेः 'महीपतीनां' इति बहुवचनानुरोधाच्च तदेकदेशभूतानि
१. वह्निस्पृग्घृत । २. चेच्छन्ति पार्थिवा ।