सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 390, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 390

३३४ याज्ञवल्क्यस्मृतिः
इदानीं त्रैविद्यानां प्रतिपादितं धर्मं श्रेण्यादिष्वतिदिशन्नाह—
श्रेणिर्नैगम'पाखण्डिगणानामप्ययं विधिः ।
भेदं चैषां नृपो रक्षेत्पूर्ववृत्तिं च पालयेत् ॥ १९२ ॥
एकपण्यशिल्पोपजीविनः श्रेणयः, नैगमाः ये वेदस्याप्तप्रणीतत्वेन प्रामाण्य-
मिच्छन्ति पाशुपतादयः, पाखण्डिनो ये वेदस्य प्रामाण्यमेव नेच्छन्ति नग्नाटक-
सौगतादयः, गणो व्रातः आयुधीयादीनामेककर्मोपजीविनां, एषां चतुर्विधाना-
मप्ययमेव विधिः-यो 'निजधर्माविरोधेन' ( व्य० १८६ ) इत्यादिना प्रतिपा-
दितः । एतेषां श्रेण्यादीनां भेदं धर्मव्यवस्थां नृपो रक्षेत् । पूर्वोपात्तां वृत्तिं च
पालयेत् ॥ १९२ ॥
भाषा—श्रेणी ( एक व्यापार या शिल्प करने वाले ), नैगम ( एक ही
वेद को पढ़ने वाले ), पाखण्डी (वेद को प्रमाण न मानने वाले ) और गण
( शस्त्रादि विषयक एक ही कार्य द्वारा जीविका चलाने वालों ) के विषय
में भी यही नियम है। राजा इन सबके भेद की रक्षा करे और उनकी
पूर्ववृत्ति का पालन करे ॥ १९२ ॥
इति संविद्व्यतिक्रमप्रकरणम् ।
अथ वेतनादानप्रकरणम् १६
संप्रति वेतनस्यानपाकमार्यं व्यवहारपदं प्रस्तूयते । तत्स्वरूपं च नारदे-
नोक्तम् ( ६।१ )—'भृत्यानां२ वेतनस्योक्तो दानादानविधिक्रमः । वेतनस्यान-
पाकर्म तद्विवादपदं स्मृतम् ॥' इति । अस्यार्थः—भृत्यानां वेतनस्य वक्ष्यमाण-
श्लोकैरूक्तो दानादानविधिक्रमो यत्र विवादपदे तद्वेतनस्यानपाकर्मेत्युच्यते; तत्र
निर्णयमाह—
गृहीतवेतनः कर्म त्यजन्द्विगुणमावहेत् ।
अगृहीते ३समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ १९३ ॥
गृहीतं वेतनं येनासौ स्वानीकृतं कर्म त्यजन् अकुर्वन् द्विगुणां भृतिं
स्वामिने दद्यात् । यदा पुनरभ्युपगतं कर्म अगृहीते एव वेतने त्यजति तदा
समं यावद्वेतनमभ्युपगतं तावद्दाप्यो न द्विगुणम् । यद्वाऽङ्गीकृतां भृतिं दत्त्वा
बलात्कारयितव्यः; 'कर्माकुर्वन्प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात्' ( ६।५ ) इति
नारद्ववचनात् । भृतिरपि तेनैवोक्ता—'४भृत्याय वेतनं दद्यात्कर्मस्वामी यथा-
१. पाषाण्डि । २. भृतानां । ३. समं कार्यं ४. त्यैः पात्य उपस्करः ।
४. भृताव ।