याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 372, कुल 782 में से
संदर्भ में पढ़ें३१६ याज्ञवल्क्यस्मृतिः
८।२३८) - इति दण्डाभावस्यानावृतक्षेत्रविषयत्वेन मनुनेोक्तत्वात् । आवृते
पुनर्मार्गादिक्षेत्रेऽपि दोषोऽस्त्येव । वृतिकरणं च तेनैवोक्तम् । 'वृतिं च तत्र
कुर्वीत यामुष्ट्रो नावलोकयेत् । छिद्रं निवारयेत्सर्वं श्वसूकरमुखानुगम् ( मनुः
८।२३९) इति ॥ १६२ ॥
भाषा-गाँव के निकट के मार्ग में और पशुओं के बाड़े से सटे हुए खेत
में भूल से पशुओं के पड़ जाने पर कोई दोष नहीं होता । जानबूझ कर
पशुओं को छोड़ने वाला चोर के समान दण्डनीय होता है ॥ १६२ ॥
पशुविशेषेऽपि दण्डाभावमाह-
महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः ।
पालो येषां न ते मोच्या दैवराजपरिप्लुताः ॥ १६३ ॥
महांश्चासावुक्षा च महोक्षो वृषः सेक्ता । उत्सृष्टपशवः वृषोत्सर्गादिविधि-
नेन देवतोद्देशेन वा त्यक्ताः । सूतिका प्रसूता अनिर्दशाहा; आगन्तुकः
स्वयूथात्परिभ्रष्टो देशान्तरादागतः । एते मोच्याः परसस्यभक्षणेऽपि न दण्ड्याः ।
येषां च पालो न विद्यते तेऽपि दैवराजपरिप्लुताः दैवराजोपहताः सस्यविनाश-
कारिणो न दण्ड्याः । आदिशब्दग्रहणाद्गस्त्यश्वादयो गृह्यन्ते । ते चोशन-
सोक्ताः- 'अदण्ड्या हस्तिनो ह्यश्वाः प्रजापाला हि ते स्मृताः । अदण्ड्यौ
काणकुब्जौ च ये शश्वत्कृतलक्षणाः ॥ अदण्ड्यागन्तुकी गौश्च सूतिका वाऽभिसा-
रिणी । अदण्ड्याश्चोत्सवे गावः श्राद्धकाले तथैव च ॥' इति । अत्रोत्सृष्टपशूनाम-
स्वामिकत्वेन दण्डयत्वासंभवात् दृष्टान्तार्थमुपादानम् । यथोत्सृष्टपशवो न
दण्ड्या एवं महोक्षादय इति ॥ १६३ ॥
भाषा-साँड, यज्ञ विधि से छोड़े गये पशु, दस दिन से कम की ब्याई
हुई गाय, अपने गिरोह से भटक कर आये हुए पशु को छोड़ देना चाहिए
(दण्ड नहीं देना चाहिए) । जिसको पालने वाला न हो और जो राजा
या दैव से पीडित हो ऐसे पशु को ( खेत चरने पर भी) छोड़ देना
चाहिए ॥ १६३ ॥
गोस्वामिन उक्तम्, इदानीं गोपं प्रत्युपदिश्यते-
यथार्पितान्पशून्गोपः सायं प्रत्यर्पयेत्तथा ।
प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ॥ १६४ ॥
१. सूतिकागन्तुकी च गौः । २. च । ३. राजदेवपरि । ४. अदण्ड्याः
काणकूब्राश्च वृताश्च कृतलक्षणाः ।