सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 371, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 371

व्यवहाराध्यायः ३१५
परसस्यविनाशे गोस्वामिनो दण्ड उक्तः, इदानीं क्षेत्रस्वामिने फलमप्यसौ
दापनीय इत्याह—
^१यावत्सस्यं विनश्येत्तु तावत्स्यात्क्षेत्रिणः फलम् ।
^२गोपस्ताड्यश्च गोमी तु पूर्वोक्तं दण्डमर्हति ॥ १६१ ॥
‘सस्य’ग्रहणं क्षेत्रोपचयोपलक्षणार्थम् । यस्मिन्क्षेत्रे यावत्पलालधान्यादिकं
गवादिभिर्विनाशितं तावत्क्षेत्रफलं ‘एतावति क्षेत्रे एतावद्भवति’ इति सामन्तैः
परिकल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः । गोपस्तु ताडनीय एव,
न फलं दापनीयः । गोपस्य च ताडनं पूर्वोक्तधनदण्डसहितमेव पालदोषेण
सस्यनाशे द्रष्टव्यम् । ‘या नष्टा पालदोषेण गौस्तु सस्यानि नाशयेत् । न तत्र
गोमिनां दण्डः पालस्तं दण्डमर्हति ॥’ इति वचनात् ॥ गोमी पुनः स्वापराधेन
सस्यनाशे पूर्वोक्तं दण्डमेवार्हति, न ताडनम् । फलदानं पुनः सर्वत्र गोस्वामिन
एव; तत्फलपुष्टमहिष्यादिक्षीरेणोपभोगद्वारेण तत्क्षेत्रफलभागित्वात् । गवादि-
भक्षितावशिष्टं पलालादिकं गोमिनैव ग्रहीतव्यम् । मध्यस्थकल्पितमूल्यदानेन
क्रीतप्रायत्वात् । अत एव नारदः—गोभिस्तु भक्षितं सस्यं यो नरः प्रतियाचते ।
सामन्तानुमतं देयं धान्यं यत्तत्र वापितम् ॥ पलालं ^५गोमिने देयं धान्यं वै कर्ष-
कस्य तु ॥’ इति ॥ १६१ ॥
भाषा—गाँव के निकट के मार्ग में, और पशुओं के बाड़े के निकट के
जितनी फसल चरे या नष्ट किये हो उतने का फल खेत के स्वामी को मिले ।
चरवाहे को पीटना चाहिए और गाय के स्वामी से उपरोक्त दण्ड ही लेना
चाहिए ॥ १६१ ॥
क्षेत्रविशेषे अपवादमाह—
पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते ।
अकामतः कामचारे चौरवद्दण्डमर्हति ॥ १६२ ॥
पथि मार्गसमीपवर्तिनि क्षेत्रे ग्रामविवीतसमीपवर्तिनि च क्षेत्रे अकामतो
गोभिर्भक्षिते गोपगोमिनोर्द्वयोरप्यदोषः । दोषाभावप्रतिपादनं च दण्डाभावार्थं
विनष्टसस्यमूल्यादानप्रतिषेधार्थं च । कामचारे कामतश्चारणे चौरवत् चौरस्य
यादृशो दण्डस्तादृशं दण्डमर्हति । एतच्चानावृतक्षेत्रविषयम् ; ‘तत्रापरिवृतं
धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥
१. विनश्येत तावत्क्षेत्री फलं लभेत् । २. पालस्ताड्योत गोमी तु पूर्वव-
दण्ड । पालस्ताड्योऽथ गोमी तु पूर्वोक्तं । ३. गोमिन एव । ४. मूल्यद्वारेण ।
५. गोमिनो देयं ।