याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 369, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः ३१३
क्षेत्रस्वामिनमनभ्युपगम्य तदभावे राजानं वा यः परक्षेत्रे सेतुं प्रवर्त-
यत्यसौ फलभाङ् न भवति, अपि तु तदुत्पन्ने फले क्षेत्रस्वामिनो भोगस्तद-
भावे राज्ञः। तस्मात्प्रार्थनया अर्थदानेन वा क्षेत्रस्वामिनं तदभावे राजानं
वाऽनुज्ञाप्यैव परक्षेत्रे सेतुः प्रवर्तनीय इति तात्पर्य्यार्थः ॥ १५७ ॥
भाषा—जो खेत के स्वामी से बिना पूछे ही खेत में सेतु बनाता है,
उससे फल होने पर खेत का स्वामी ही उसका अधिकारी होता है । उसके न
होने पर वह लाभ राजा को प्राप्त होता है ॥ १५७ ॥
क्षेत्रस्वामिना सेतुर्न प्रतिषेध्य इत्युक्तम् , इदानीं तस्यैव प्रसक्तानुप्रसक्त्या
क्वचिद्विध्यन्तरमाह—
फालाहतमपि क्षेत्रं न² कुर्य्याद्यो न कारयेत् ।
स³ प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत् ॥ १५८ ॥
यः पुनः क्षेत्रस्वामिपार्श्वे 'अहमिदं क्षेत्रं कृषामि' इत्यङ्गीकृत्य पश्चादुत्सृ-
जति, न चान्येन कर्षयति, तच्च क्षेत्रं यद्यपि फालाहतं ईषद्वलेन विदारितं
न सम्यग्बीजावापाहं तथाऽपि तस्याकृष्टस्य फलं यावत्तत्रोत्पत्स्यहं सामन्तादि-
कल्पितं तावदसौ कर्षको दापनीयः । तच्च क्षेत्रं पूर्वकर्षकादाच्छिद्यान्येन
कारयेत् ॥ १५८ ॥
भाषा—जो खेत के स्वामी से खेत लेकर थोड़ा जोतकर फिर न
अपने जोतता है और न किसी दूसरे को जोतने देता है उससे उस खेत में
जितना पैदा होता है उतना अन्न दिलावे और खेत दूसरे को जोतने के
लिए देवे ॥ १५८ ॥
इति सीमाविवादप्रकरणम् ।
अथ स्वामिपालविवादप्रकरणम् १०
व्यवहारपदानां परस्परहेतुँ हेतुमद्भावाभावात् 'तेषामद्यमृणादानम्' इत्यादि-
पाठक्रमो न विवक्षित इति व्युत्क्रमेण स्वामिपालविवादोऽभिधीयते—
माषानष्टौ तु महिषी सस्यघातस्य कारिणी ।
दण्डनीया तदर्धं तु गौस्तदर्धमजाविकम् ॥ १५९ ॥
१. भ्युपगमय्य । २. यो न कुर्यान्न । ३. तं प्रदाप्या-
कृष्टशदं ( = शदः क्षेत्रस्य फलं, अकृष्टस्य क्षेत्रस्य शदः । अकृष्टेऽपि क्षेत्रे
तं प्रदाप्य क्षेत्रमन्यस्यार्पयेत् ) । ४. हेतुमद्भावात् ।