सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 368, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 368

३१२ . याज्ञवल्क्यस्मृतिः
अपह्रियमाणक्षेत्रादिभूयस्त्वपर्यालोचनया कदाचिदुत्तमोऽपि दण्डः प्रयोक्तव्यः ।
अत एवाह—'वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड
उत्तमसाहसः ॥' इति ॥ १५५ ॥
० भाषा—मर्यादा ( खेतों के बीच मे बनी हुई मेंड़ ) को तोड़ने और
सीमा को पार करने ( अधिक जोतने ) और धमकी देकर खेत छीन लेने पर
क्रमशः अधम, उत्तम और मध्यमसाहस का दण्ड समझना चाहिए ॥ १५५ ॥
यः पुनः परक्षेत्रे सेतुकूपादिकं प्रार्थनयार्थदानेन वा लब्धानुज्ञो निर्मातुमि-
च्छति तन्निषेधतः क्षेत्रस्वामिन एव दण्ड इत्याह—
न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकेः ।
परभूमिं १हरन्कूपः स्वल्पक्षेत्रो बहूदकः ॥ १५६ ॥
परकीयां भूमिमपहरन्नाशयन्नपि सेतुर्जलप्रवाहबन्धः क्षेत्रस्वामिना न
प्रतिषेध्यः स चेदोषपीडाकरो बहूपकारकश्च भवति । कूपश्चाल्पक्षेत्रव्यापित्वेना-
ल्पबाधो बहूदकत्वेन कल्याणकारकश्चेतो २बहूदको नैव निवारणीयः । 'कूप'
ग्रहणं च वापोपुष्करिण्याद्युपलक्षणार्थम् । यदा पुनरसौ ३सर्वक्षेत्रवर्तितया बहु-
बाधो नद्यादिसमीपक्षेत्रवर्तितया वाऽल्पोपकारकस्तदासौ निषेध्य इत्यर्थादुक्तं
भवति । सेतोश्च द्वैविध्यमुक्तं नारदेन ( १५।१८ )—'सेतुश्च द्विविधो ज्ञेयः
खेयो बन्धस्तथैव च । तोयप्रवर्तनात्खेयो बन्ध्यः स्यात्तन्निवर्तनात् ॥' इति
यदा त्वन्यनिर्मितं सेतुं भेदनादिना नष्टं स्वयं संस्करोति तदा पूर्वस्वामिनं
तद्वंश्यं नृपं वा पृष्ट्वैव संस्कुर्यात् । यथाऽऽह नारदः ( ११।२०-२१ )—'पूर्व-
प्रवृत्तमुत्सन्नमपृष्ट्वा स्वामिनं तु यः । सेतुं प्रवर्त्तयेत्कश्चिन्न स तत्फलभाग्भवेत् ॥
मृते तु स्वामिनि पुवस्तद्वंश्ये वाऽपि मानवे । राजानमामन्त्र्य ततः कुर्यात्सेतु-
प्रवर्त्तनम् ॥' इति ॥ १५६ ॥
भाषा—थोड़ी भूमि के लगने से बहुत कल्याण देने वाला सेतु दूसरे
के भूमि में बनाने पर भी भूमि का स्वामी मना न करे । दूसरे की
भूमि लेकर कुआँ बनवाने पर भूमि की हानि कम होती है और उससे जल
का लाभ अधिक होता है ॥ १५६ ॥
क्षेत्रस्वामिनं प्रत्युपदिष्टम् , इदानीं सेतोः प्रवर्त्तयितारं प्रत्याह—
स्वामिने ४योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्त्तयेत् ।
उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥ १५७ ॥
१. हरेत् । २. बहूपकारको नैव । ३. समग्रक्षेत्र । ४. अविनिवेद्यैव ।