सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 362, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 362

कार्यप्रवृर्तनात् ॥ भ्रातृणामविभक्तानामेको धर्मः प्रवर्तते । विभागे सति
धर्मोऽपि भवेत्तेषां पृथक् पृथक् ॥' तथाऽपराण्यपि विभागलिङ्गानि तेनैवोक्तानि—
'साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्युर्नाविभक्ताः
कथंचन ॥' (ना० १३।४२, ४३ ) इति ॥ १४९ ॥
भाषा—विभाग को अस्वीकार करने पर जाति के लोगों, बन्धुओं,
साक्षियों, लेख और पृथक् किये गये घर और खेत से विभाग का निर्णय
होता है ॥ १४९ ॥
इति दायविभागप्रकरणम् ।
अथ सीमाविवादप्रकरणम् ९
अधुना सीमाविवादनिर्णय उच्यते—
सीम्नो विवादे क्षेत्रस्य सामन्ताः १स्थविरादयः ।
गोपाः सीमाकृषाणा२ ये ३सर्वे च वनगोचराः ॥ १५० ॥
नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः ।
सेतुवल्मीकनिम्नास्थिचैत्याद्यैश्चै४रुपलक्षिताम् ॥ १५१ ॥
ग्रामद्वयसंबन्धिनः क्षेत्रस्य सीम्नो विवादे तथैकग्रामान्तर्वर्तिक्षेत्रमर्या-
दाविवादे च सामन्तादयः स्थलाङ्गारादिभिः पूर्वकृतैः सीमालक्षणैरुपलक्षितां
चिह्नितां सीमां नयेयुर्निर्णयेयुः । सीमा क्षेत्रादिमर्यादा; सा चतुर्विधा—जनप-
दसीमा, ग्रामसीमा, क्षेत्रसीमा, गृहसीमा चेति । सा च यथासंभवं पञ्चलक्षणा ।
तदुक्तं नारदेन—‘ध्वजिनी मत्स्यिनी चैव नैधानी भयवर्जिता । राजशासननीता
च सीमा पञ्चविधा स्मृता ॥' इति ॥ ध्वजिनी वृक्षादिलक्षिता; वृक्षादीनां
प्रकाशकत्वेन ध्वजतुल्यत्वात् । मत्स्यिनी सलिलवती; 'मत्स्य' शब्दस्य
स्वाधारजललक्षकत्वात् । नैधानी निखाततुषाङ्गारादिमती; तेषां निखातत्वेन
निधानतुल्यत्वात् । भयवर्जिता अर्थिप्रत्यर्थिपरस्परसंप्रपत्तिनिर्मिता । राजशा-
सननीता ज्ञातृचिह्नाभावे राजेच्छया निर्मिता । एवंभूतायां षोढा विवादः
संभवति । यथाऽऽह कात्यायनः—'आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव
च । अभोगभुक्तिः सीमा च षड् भूवादस्य हेतवः ॥' इति ॥ तथा हि—'ममात्र
पञ्चनिवर्तनाया भूमेरधिका भूरस्ति' इति केनचिदुक्ते पञ्चनिवर्तनैव नाधिके-
१. स्थविरा गणाः । २. कृषाणाश्च (= वृद्धबालिका) । ३. चान्ये ।
४. रुपलक्षितम् ।