सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 333, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 333

व्यवहाराध्यायः २७७

भूः शालिक्षेत्रादिका । निबन्ध एकस्य पर्णभेरकस्येयन्ति पर्णानि, तथा
एकस्य क्रमुकफलभेरकस्येयन्ति क्रमुकफलानीत्याद्युक्तलक्षणः । द्रव्यं सुवर्णरज-
तादि यत्पितामहेन प्रतिग्रहविजयादिना लब्धं तत्र पितुः पुत्रस्य च स्वौत्थं
लोकप्रसिद्धमिति कृत्वा विभागोऽस्ति । हि यस्मात्तत्सदृशं समानम् , तस्मान्न
पितुरिच्छयैव विभागो नापि पितुर्भागद्वयम् । अतश्च ‘पितृतो भागकल्पना’
( व्य० १२० ) इत्येतत्स्वाम्ये समेऽपि वाचनिकम् । ‘विभागं चेत्पिता कुर्यात्’
( व्य० ११४ ) इत्येतत्स्वार्जितविषयम् । तथा—‘द्वावंशौ प्रतिपद्येत विभजन्ना-
त्मनः पिता’ ( नारदः १३।१२ ) इत्येतदपि स्वार्जितविषयम् । ‘जीवतोश्च-
तन्त्रः स्याज्जरायापि समन्वितः’ इत्येतदपि पारतन्त्र्यं मातापित्रर्जितद्रव्यवि-
षयम् । तथा—‘अनीशास्ते हि जीवतोः’ इत्येतदपि । तथा सरजस्कायां मातरि
सस्पृहे च पितरि विभागमनिच्छत्यपि पुत्रेच्छया पैतामहद्रव्यविभागो भवति ।
तथाऽविभक्तेन पित्रा पैतामहे द्रव्ये दीयमाने विक्रीयमाणे वा पौत्रस्य निषेधेऽ-
प्यधिकारः, पित्रर्जिते न तु निषेधाधिकारः, तत्परतन्त्रत्वात् । अनुमतिस्तु
कर्तव्या । तथा हि—पैतृके पैतामहे च स्वाम्यं यद्यपि जन्मनाैव, तथापि पैतृके
पितृपरतन्त्रत्वात् पितुश्चार्जकत्वेन ३ प्राधान्यात् पित्रा विनियुज्यमाने स्वार्जिते
द्रव्ये पुत्रेणानुमतिः कर्तव्या । पैतामहे तु द्वयोः स्वाम्यमविशिष्टमिति निषेधा-
धिकारोऽप्यस्तीति विशेषः । मनुरपि ( ९।२०९ ) ‘पैतृकं तु पिता द्रव्यमनवाप्तं
यदाप्नुयात् । न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥’ इति । यत्पितामहार्जितं
केनाप्यपहृतं पितामहेनानुद्धृतं यदि पितोद्धरति तत्स्वार्जितमिव पुत्रैः सार्ध-
मकामः स्वयं न विभजेदिति वदन् पितामहार्जितमकामोऽपि पुत्रेच्छया पुत्रैः सह
विभजेदिति दर्शयति ॥ १२१ ॥

भाषा—जो भूमि, निबन्ध ( चुङ्गी आदि ) एवं धन पितामह ने उपा-
र्जित किये हों उसमें भी उपरोक्त के समान ही पहले पिता का भाग लगाकर
फिर उसके अन्तर्गत पुत्र का भाग होता है ॥ १२१ ॥

विभागोत्तरकालमुत्पन्नस्य पुत्रस्य कथं विभागकल्पनेत्यत आह—
विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।
विभक्तेषु पुत्रेषु पश्चात्सवर्णायां भार्यायामुत्पन्नो विभागभाक् । विभज्यत
इति विभागः । पित्रोर्विभागस्तं भजतीति विभागभाक्; पित्रोरूर्ध्वं तयोरंशं
लभत इत्यर्थः । मातृभागं चासत्यां दुहितरि, ‘मातुर्दुहितरः शेषम्’ ( व्य०


१. भारकस्य । २. स्वाम्यमर्थसिद्धमिति । ३. पितुः स्वार्जकत्वेन ।
४. कारोऽप्यस्तीति ।