सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 224, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 224

१६८ याज्ञवल्क्यस्मृतिः
नियोगकृत् । परार्थवादी दण्ड्यः स्याद्व्यवहारेषु विब्रुवन् ॥' (२।२३) इति
नारदवचनात् ॥ ५ ॥
भाषा—यदि धर्मशास्त्र और समय के आचार के विरुद्ध ढंग से दूसरों
द्वारा पीडित होकर राजा निवेदन करे तो वह व्यवहार का विषय होता
है ॥ ५ ॥
प्रत्यर्थिनि मुद्रालेख्यपुरुषाणामन्यतमेनानीते किं कुर्यादित्यत आह—
प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना ।
समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् ॥ ६ ॥
अर्थ्यते इत्यर्थः साध्यः, सोऽस्यास्तीत्यर्थी; तत्प्रतिपक्षः प्रत्यर्थी, तस्याग्रतः
पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण पूर्वमावेदनकाले आवेदितं
तथा, न पुनरन्यथा; अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात् ।—'अन्यवादी
क्रियाद्वेषी नोपस्थाता निरुत्तरः । 'आहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥'
( नारदः १।३३ ) इति । आवेदनकाल एवार्त्तिवचनस्य लिखितत्वात्पुनर्लेखन-
मनर्थकमित्यत आह—समामासेत्यादि । संवत्सरमासपक्षतिथिवारादिना—
अर्थिप्रत्यर्थिनामब्राह्मणजात्यादिचिह्नितम् । 'आदि' शब्देन द्रव्यतत्सङ्ख्यास्थान-
वेलाक्षमालिङ्गादीनि गृह्यन्ते ॥ यथोक्तम्—'अर्थबद्धमसंयुक्तं परिपूर्णमनाकुलम् ।
साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धं च निश्चितं साधनै-
क्षमम् । संक्षिप्तं निखिलार्थं च देशकालाविरोधि च । वर्षर्तुमासपक्षाहोवेलादेश-
प्रदेशवत् । स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ॥ साध्यप्रमाणसंख्यावदा-
त्मप्रत्यर्थिनामवत् । परात्मपूर्वजानेकराजनामभिरङ्कितम् ॥ क्षमालिङ्गारमपीडाव-
स्कथिताहर्तृदायकम् । यदावेदयते राज्ञे तद्भाष्येत्यभिधीयते ॥' इति । भाषा 'प्रतिज्ञा'
'पक्ष' इति नार्थान्तरम् । आवेदनसमये कार्यमात्रं लिखितं प्रत्यर्थिनोऽग्रतः समा-
मासादिविशिष्टं लिख्यत इति विशेषः । संवत्सरविशेषणं यद्यपि सर्वव्यवहारेषु
नोपयुज्यते, तथाप्याधिप्रतिग्रहक्रयेषु निर्णयार्थमुपयुज्यते; आधौ प्रतिग्रहे क्रीते
पूर्वा तु बलवत्तरा' इति वचनात् । अर्थव्यवहारोऽपि एकस्मिन्संवत्सरे यत्सङ्ख्याकं
यद्द्रव्यं यतो येन गृहीतं प्रत्यर्पितं च पुनरन्यस्मिन्वत्सरे तद्द्रव्यं तत्संख्याकं तत-
स्तेन गृहीतं, याच्यमानो यदि ब्रूयात्सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे
गृहीतं प्रत्यर्पितं नास्मिन्वत्सरे इत्युपयुज्यते । एवं मासाद्यपि योज्यम् । देश-
स्थानादयः पुनः स्थावरेष्वेवोपयुज्यन्ते—'देशश्चैव तथा स्थानं संनिवेशस्तथैव च।
१. आहूतम्प्रपलापी । २. साधने क्षमम् । ३. नियतार्थं ।