याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 223, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः १६७
एतान्यपि साध्यभेदेन पुनर्बहुत्वं गतानि । यथाह नारदः ( १।२० )—‘एवमेव
प्रभेदोऽन्यः शतमष्टोत्तरं भवेत् । क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥’
इति ॥ 'आवेदयति चेद्राज्ञे' इत्यनेन स्वयमेवागत्यावेदयति, न राजप्रेरितस्तत्पुरु-
षप्रेरितो वेति दर्शयति । यथाह मनुः ( ८।४३ )—‘नोत्पादयेत्स्वयं कार्यं
राजा वाप्यस्य पूरुषः । न च प्रापितमन्येन ग्रसेतार्थं कथंचन ॥’ इति ॥
परैरिति परेण पराभ्यां परैरित्येकस्यैकेन द्वाभ्यां बहुभिर्वा व्यवहारो भवतीति
दर्शयति ॥ यत्पुनः—'एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च । अनादेयो
भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति नारद (कात्यायन ?) वचनं, तद्भिन्नसा-
ध्यद्वयविषयम् । 'आवेदयति चेद्राज्ञे' इत्यनेनैव राज्ञा पृष्टो विनीतवेष आवेद्-
येत् । आवेदितं च युक्तं चेन्मुद्रादिना प्रत्यर्थ्याह्वानमकल्पादीनां चानाह्वानमित्या-
र्थसिद्धिमिति नोक्तम् । स्मृत्यन्तरे तु स्पष्टार्थमुक्तम् । यथा 'काले कार्यार्थिनं
पृच्छेद् गृणन्तं पुरतः स्थितम् । किं कार्यं का च ते पीडा मा भैषीर्ब्रूहि मानव ॥
केन कस्मिन्कदा कस्मात्पृच्छेदेवं सभागतम् । एवं पृष्टः स यद्ब्रूयात्तत्सभ्यैर्ब्रा-
ह्मणैः सह ॥ विमृश्य कार्यं न्याय्यं चेदाह्वानार्थमतः परम् । मुद्रां वा निक्षिपेत्त-
स्मिन्पुरुषं वा समादिशेत् ॥ अकल्पबालस्थविरविषमस्थक्रियाकुलान् । कार्याति-
पातिव्यसनिनृपकार्योत्सवाकुलान् । मत्तोन्मत्तप्रमत्तार्तभृत्यांश्चाह्वानयेन्नृपः ॥ न
हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् । सर्ववर्णोत्तमां कन्यां वा ज्ञातिप्रभुकाः
स्मृताः ॥ तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः । निष्कुला याश्च पतिता-
स्तासामाह्वानमिष्यते ॥ कालं देशं च विज्ञाय कार्याणां च बलाबले । अकल्पादी-
नपि शनैःशनैराह्वानयेन्नृपः ॥ ज्ञात्वाभियोगं येऽपि स्युर्वने प्रव्रजितादयः । तान-
प्याह्वानयेद्राजा गुरुकार्येष्वकोपयन् ॥' इति । आसेधव्यवस्थाप्यर्थसिद्धैव
नारदेनोक्ता ( १।४७ ५३ )—‘वक्तव्येऽर्थे ह्यतिष्ठन्तमुत्क्रामन्तं च तद्वचः ।
आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥ स्थानासेधः कालकृतः प्रवासात्कर्मण-
स्तथा । चतुर्विधः स्यादासेधो नासिद्धस्तं विलङ्घयेत् ॥ आसेधकाले आसिद्ध
आसेधं योऽतिवर्तते । स विनेयोऽन्यथाकुर्वन्नासेद्धा दण्डभाग्भवेत् ॥ नदीसं-
न्तारकान्तारदुद्देशोपप्लवादिषु । आसिद्धस्तं परासेधमुत्क्रामन्नापराध्नुयात् ॥ निर्वे-
ष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः । अभियुक्तस्तथाऽन्येन राजकार्योद्यतस्तथा ॥
गवां प्रचारे गोपालाः सस्यावापे कृषीवलाः । शिल्पिनश्चापि तत्कालमायुधीयाश्च
विग्रहे ॥’ इति । आसेधो राजाज्ञयाऽवरोधः । अकल्पादयः पुत्रादिकमन्यं वा
सुहृदं ³प्रेषयेयुः, नच ते परार्थवादिनः; 'यो न भ्राता न च पिता न पुत्रो न
१. स्मृतम् । २. पृच्छेत्प्रणतं । ३. प्रेषयन्ति, प्रेषयिष्यन्ति ।