याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 215, कुल 782 में से
संदर्भ में पढ़ें\centerline{आचाराध्यायः} \hfill १५६
भाषा—इस प्रकार यज्ञ के समान फल का विचार करके राजा प्रतिदिन
सभ्य अर्थात् श्रेष्ठ जनों के साथ स्वयं पृथक्-पृथक् (वर्ण आदि के क्रम से)
व्यवहारों (वादों या मुकदमों) को देखे ॥ ३६० ॥
कुलानि जातीः श्रेणीश्च गणान्जानपदानपि ।
स्वधर्माच्चलितान् राजा विनीय स्थापयेत्पथि ॥ ३६१ ॥
कुलानि ब्राह्मणादीनाम्, जातयो मूर्धावसिक्तप्रभृतयः, श्रेणयस्ताम्बूलिका-
दीनाम्, गणा हेलाबुकादीनाम्, जानपदाः, कारुकादयः, एतान्स्वधर्माच्च-
लितान्प्रच्युतान् राजा यथापराधं विनीय दण्डयित्वा पथि स्वधर्मे स्थापयेत् ।
‘दण्डं दुर्बृत्तेषु निपातयेत्’ (आ ३५४) इत्युक्तं, स च दण्डो द्विविधः—
शारीरोऽर्थदण्डश्चेति । यथाह नारदः—‘शारीरश्चार्थदण्डश्च दण्डो हि द्विविधः
स्मृतः । शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्तितः ॥ कौकिण्यादिस्त्वर्थदण्डः
सर्वस्वान्तस्तथैव च ॥’ इति । द्विविधोऽप्यपराधानुसारेणानेकधा भवति ।
आह स्म—‘शारीरो दशधा प्रोक्तो ह्यर्थदण्डस्त्वनेकधा’ इति ॥ ३६१ ॥
भाषा—ब्राह्मण आदि कुलों, मूर्धावसिक्त आदि जातियों, ताम्बूलिक
आदि श्रेणियों गणों और जनपदों को अपने धर्म से भ्रष्ट होने पर राजा दण्ड
देकर पुनः धर्मसंमत मार्ग में प्रतिष्ठित करे ॥ ३६१ ॥
तत्र कृष्णलमाषसुवर्णपलादिशब्दैरर्थदण्डा वक्तव्याः, ते च प्रतिदेशं
भिन्नपरिमाणार्था इत्येकरूपापराधेऽपि देशभेदेन न्यूनाधिकदण्डो मा भूदिति
कृष्णलादिशब्दानां नियतपरिमाणविषयत्वं दण्डव्यवहारे दर्शयितुमाह—
जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।
तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ ३६२ ॥
गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः ।
कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ॥ ३६३ ॥
पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ।
जालकान्तरप्रविष्टादित्यरश्मिस्थितं यद्रजस्तत् त्रसरेणुरित्युक्तं योगीश्वरा-
दिभिस्तत्त्वदर्शिभिः । ते च त्रसरेणवोऽष्टौ लिक्षा स्वेदजयूकाण्डम् । ता
लिक्षास्तिस्रो राजसर्षपो राजिका । ते राजसर्षपास्त्रयो गौरसर्षपः सिद्धार्थः ।
गौरसर्षपाः षड् यवो मध्यः मध्यमः, न स्थूलो न सूक्ष्मः । एतेन गौरसर्षपा
अपि मध्यमा इति गम्यते । तथा राजसर्षपा अपि ‘मध्यम’ शब्दादेव । सर्षपादि-
\rule{0.3\linewidth}{0.5pt}
१. काठिन्यादि । \hspace{2em} २. मध्यस्त्वत्रयस्तु ते ।