याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 214, कुल 782 में से
संदर्भ में पढ़ें१५८ याज्ञवल्क्यस्मृतिः
अर्घोऽर्हार्हः आचार्यादिः। शेषः प्रसिद्धः। एते भ्रातृसुतादयोऽपि स्वधर्मा-
च्चलिता दण्ड्याः, किमुतान्ये । यतः स्वधर्माच्चलितः अदण्ड्यो नाम राज्ञः
कोऽपि नास्ति। एतच्च मातापित्रादिव्यतिरेकेण। तथा च स्मृत्यन्तरम्—
‘अदण्ड्यौ मातापितरौ स्नातक^१पुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशौचाचार-
वन्तस्ते हि धर्माधिकारिणः’ इति ॥ ३५८ ॥
भाषा—भाई, पुत्र आचार्य आदि व्यक्ति, श्वशुर या मामा—कोई
भी अपने धर्म से विचलित हो तो राजा के लिये अदण्ड्य नहीं होता (अर्थात्
राजा को उसे अवश्य दण्ड देना चाहिए) ॥ ३५८ ॥
यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् ।
इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥ ३५९ ॥
किंच, यस्तु राजा दण्ड्यान् स्वधर्मचलनादिना दण्डयोग्यान् सम्यक
शास्त्रदृष्टेन मार्गेण धिग्धनदण्डादिना दण्डयति, वध्यान्वधार्हान् घातयति
तेन राज्ञा भूरिदक्षिणैः क्रतुभिरिष्टं भवति। बहुदक्षिणक्रतुफलं प्राप्नोतीत्यर्थः।
न च फलश्रवणाद्दण्डप्रणयनं काम्यमिति मन्तव्यम्, अकरणे प्रायश्चित्त-
स्मरणात् । यथाह वसिष्ठः (१९।४०-४४)—‘दण्ड्योत्सर्गे राजैकरात्रमुपवसेत्’,
‘त्रिरात्रं पुरोहितः’, ‘कृच्छ्रमदण्ड्यदण्डने पुरोहितः’, ‘त्रिरात्रं राजा’
इति ॥ ३५९ ॥
भाषा—जो राजा दण्डनीय व्यक्तियों को सम्यक् (शास्त्रानुसार) दण्ड
देता है और वधयोग्य व्यक्तियों को मारता है, वह अधिक दक्षिणा वाले यज्ञों
का फल प्राप्त करता है ॥ ३५९ ॥
‘दुष्टे सम्यग्दण्डः प्रयोक्तव्यः’ (आ० ३५४) इत्युक्तं, दुष्टपरिज्ञानं
च व्यवहारदर्शन मन्तरेण न भवतीति तत्परिज्ञानाय व्यवहारदर्शनमहरहः
स्वयं कर्तव्यमित्याह—
इति सञ्चिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ।
व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥ ३६० ॥
इत्येवमुक्तप्रकारेण क्रतुतुल्यं फलं दण्ड्यदण्डने, स्वर्गादिनाशं चादण्ड्य-
दण्डने सम्यग्विचिन्त्य पृथक्पृथग्वर्णादिक्रमेण, सभ्यैर्वक्ष्यमाणलक्षणैः परिवृतः,
प्रतिदिनं व्यवहारान्वक्ष्यमाणमार्गेण^२ दुष्टादुष्टपरिज्ञानार्थं राजा स्वयं
पश्येत् ॥ ३६० ॥
१. परिव्राजकपुरोहित । २. वक्ष्यमाणधर्मेण ।