याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 210, कुल 782 में से
संदर्भ में पढ़ें१५४ याज्ञवल्क्यस्मृतिः
करने पर सफलता मिलती है। और कोई उपाय न चलने पर ही दण्ड का
आश्रय लिया जाता है ॥ ३४६ ॥
संधिं च १विग्रहं यानमासनं संश्रयं तथा ।
द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् ॥ ३४७ ॥
किंच, सन्धिव्यवस्थाकरणम्, विग्रहोऽपकारः, यानं परं प्रति यात्रा,
आसनमुपेक्षा, संश्रयो बलवदाश्रयणम्, द्वैधीभावः स्वबलस्य द्विधाकरणम् ।
एतान्सन्धिप्रभृतीन्गुणान् यथावद्देशकालशक्तिमित्रादिवशेन कल्पयेत् ॥ ३४७ ॥
भाषा—सन्धि, विग्रह (अपकार), यान (चढ़ाई), उपेक्षाभाव, बल-
वान का आश्रय तथा अपनी सेना का द्विधा विभाजन—इन गुणों का यथोचित
(देश, काल, शक्ति, मित्र आदि का विचार करके) अवलम्बन करे ॥ ३४७ ॥
यानकालानाह—
यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ।
परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥ ३४८ ॥
यदा परराष्ट्रं सस्यैर्व्रीह्यादिभिर्गुणैश्च समजलेन्धनतृणादिभिरुपेतं सम्पन्नं
शत्रुश्च हीनो बलादिभिः, आत्मा च हृष्टवाहनपूरुषः वाहनानि हस्त्यश्वादीनि
तानि च पूरुषाश्च वाहनपूरुषाः हृष्टा वाहनपूरुषा यस्य स तथोक्तः । तदा
परराष्ट्रमात्मसात्कर्तुं व्रजेत् ॥ ३४८ ॥
भाषा—जब शत्रु का राज्य अन्न आदि से भरा पूरा हो, शत्रु की
सेना दुर्बल हो अपनी सेना के अश्वादि वाहन एवं सैनिक प्रसन्न (एवं
उत्साहपूर्ण) हों तब आक्रमण करे ॥ ३४८ ॥
प्राणिनामभ्युदयविनिपातानां दैवायत्तत्त्वाद्यदि दैवमस्ति तदा स्वयमेव
परराष्ट्रादि वशीभविष्यति, अथ नास्ति कृतेऽपि पौरुषे न भविष्यति, अतो व्यर्थ
एवायं यात्राम्यास इत्यत आह—
दैवे पुरुषकारे२ च कर्मसिद्धिर्व्यवस्थिता ।
तत्र दैवमभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥ ३४९ ॥
कर्मसिद्धिः फलप्राप्तिरनिष्टहानिलक्षणा । सा न केवलं दैवे व्यवस्थिता । अपि
तु पुरुषकारेऽपि, लोके तथा दर्शनात्, चिकित्सकादिशास्त्रवैयर्थ्याच्च । अपि च
पुरुषकाराभावे दैवमेव नास्तीत्याह—तत्र दैवमिति । यतः पूर्वदेहाजितं
पौरुषमेव दैवमुच्यते । अल्पपुरुषकारानन्तरं महाफलोदयाभिव्यक्तं पौरुषं
१. विग्रहं चैव याममासनसंश्रयौ । २. कारेऽपि ।