याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 209, कुल 782 में से
संदर्भ में पढ़ेंकोशदण्डापकर्षणात् १॥' इति । मित्रं द्विविधं-बृंहणीयं, कर्षणीयमिति ।
कोशबलहीनं बृंहणीयम् । कोशबलाधिकं कर्षणीयम् । 'अनन्तरस्तत्परः परः'
इति प्राकृतारिमित्रोदासीनानाह-अनन्तरः प्राकृतोऽरिः, तत्परः प्राकृतं मित्रं,
तस्मात्परः प्राकृत उदीनः, शेषाः पुनः प्रसिद्धत्वान्नोक्ताः । एतद्राजमण्डलं
क्रमशः पूर्वादिदिक्क्रमेण चिन्त्यं तेषां चेष्टितं ज्ञातव्यम् । ज्ञात्वा च सामादिभि-
रुपायैर्वध्यमानेरनुसंधेयम् २ । एवं पुरतः पृष्ठतः पार्श्वतश्च त्रयस्त्रय आत्मा चैक
इति त्रयोदशराजकमिदं राजमण्डलं पद्माकारम् । पाष्णिग्राहान्क्रन्दासारादयस्त्वरि-
मित्रोदासीनेष्वेवान्तर्भवन्ति, संज्ञाभेदमात्रं ग्रन्थान्तरे दर्शितमिति योगीश्वरेण
न ३ पृथगुक्ताः ॥ ३४५ ॥
भाषा-(सीमा से) सटे हुए राज्य, उसके बाद के राज्य और उसके
भी बाद के राज्य पर शासन करने वाले राजा क्रमशः शत्रु, मित्र और
उदासीन होते हैं । इन राजमण्डलों पर क्रमशः (पूर्वादि दिशा से लेकर)
ध्यान रखना चाहिए; और इनके साथ साम आदि उपायों का प्रयोग
करना चाहिए ॥ ३४५ ॥
'सामादिभिरुपक्रमैः' (आ० ३४५) इत्युक्तम् , इदानीं तानूपायानाह-
उपायाः साम दानं च भेदो दण्डस्तथैव च ।
सम्यक्प्रयुक्ताः सिद्ध्येयुर्दण्डस्त्वगतिका गतिः ॥ ३४६ ॥
साम प्रियभाषणम् , दानं सुवर्णादेः भेदो भेदकरणं तत्सामन्तादीनां
परस्परतो वैरस्योत्पादनेन, दण्ड उपांशु-प्रकाशाभ्यां धनापहारादिर्वधपर्यन्तो-
ऽपकारः । एते सामादयः परिपन्थ्यादिसाधनोपायाः । एते च देशकालाद्यनुसारेण
सम्यक्प्रयुक्ताः सिद्धयेयुः । तेषां च मध्ये दण्डस्त्वगतिका गतिः, उपायान्तर-
संभवे सति न प्रयोक्तव्यः । एतच्च पीडनीयकर्षणीयाभिप्रायेण । यातव्योच्छे-
त्तव्ययोस्तु दण्ड एव मुख्यः । एते सामादयो न केवलं राज्यव्यवहारविषयाः
अपि तु सकललोकव्यवहारविषयाः यथा-'अधीष्व पुत्रकाधीष्व दास्यामि तव
मोदकान् । यद्वाऽन्यस्मै प्रदास्यामि कर्णमुत्पाटयामि ते ॥' इति ॥ ३४६ ॥
भाषा-साम (प्रियभाषण), दान (सुवर्णादि उपहार देना,), भेद
(फूट डालना), और दण्ड (धनापहरण और वध आदि कर्म) ये चार
उपाय हैं; इनका उचित रूप से (देश, काल आदि के अनुसार) प्रयोग
१. पकर्षणात् । २. रभिसन्धेयं । ३. न पृथगुक्तम् । ४. स्योत्पा-
दनम् ।