याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 179, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः १२३
त्रिभिः पिबतीति त्रिपिबः, तस्य वार्ध्रीणसस्य मांसम् । यद्ददाति गयास्थश्च
यत्किंचिच्छाकादिकमपि गयास्थो ददाति । चशब्दाद्गङ्गाद्वारादिषु च—'गङ्गाद्वारे
प्रयागे च नैमिषे पुष्करेऽर्बुदे। संनिहत्यां गयायां च श्राद्धमक्षय्यतां व्रजेत् ॥',
'आनन्त्यमश्नुते' इति १आनन्तफलहेतुत्वं प्राप्नोति । 'आनन्त्यमश्नुते' इति
प्रत्येकमभिसंबद्ध्यते । तथा वर्षात्रयोदश्यां भाद्रपदकृष्णत्रयोदश्यां विशेषतो
मघायुक्तायां यत्किंचिद्दीयते तत्सर्वमानन्त्यमश्नुत इति गतेन संबन्धः ॥
अत्र यद्यपि मुन्यन्नमांसमध्वादीनि सर्ववर्णानां सामान्येन श्राद्धे योग्यानि दर्शि-
तानि, तथापि पुलस्त्योक्ता व्यवस्थादरणीया।—'मुन्यन्नं ब्राह्मणस्योक्तं मांसं
क्षत्रियवैश्ययोः । मधुप्रदानं शूद्रस्य सर्वेषां चाविरोधि यत् ॥' इति । अस्यार्थः-
मुन्यन्नं नीवारादि यच्छाद्धयोग्यमुक्तं तद्ब्राह्मणस्य प्रधानं समग्रफलदम् , यच्च
मांसमुक्तं तत्क्षत्रियवैश्ययोः प्रधानम् । यत्क्षौद्रमुक्तं तच्छूद्रस्य । एतत्त्रितयव्य-
तिरिक्तं यदविरोधि यदप्रतिषिद्धं वास्तुकादि, यच्च विहितं हविष्यं काल
शाकदि, तत्सर्वेषां समग्रफलदमिति ॥ २६०-२६१ ॥
भाषा—जो खड्ग ( गैंडा ) का मांस, महाशल्क मछली, मधु, या
तीनी का चावल, लाल बकरे का मांस, महाशाक, ( कालशाक ), श्वेतवर्ण
के वृद्ध बकरे का मांस देता है और गया में ( श्राद्ध करते समय ) ये पदार्थ
देता है, भाद्रपद मास की कृष्ण त्रयोदशी और विशेषतः महानक्षत्र होने पर
इनका पिण्ड देता है वह सम्पूर्ण अनन्तफल का भोग करता है ॥ २६०-२६१ ॥
तिथिविशेषात्फलविशेषमाह—
कन्यां कन्यावेदिनश्च पँशून्वै सत्सुतानपि ।
द्यूतं कृँषिं वाणिज्यां च द्विशफैकशफांस्तथा ॥ २६२ ॥
ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुप्यके ।
ज्ञातिश्रेष्ठयं सर्वकामानाप्नोति श्राद्धदः सदा॥ २६३ ॥
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥ २६४ ॥
कन्यां रूपलक्षणशीलवतीम् , कन्यावेदिनो जामातरो बुद्धिरूपलक्षण-
संपन्नाः । पशवः क्षुद्रा अजादयः, सत्सुता सन्मार्गवर्तिनः, द्यूतं द्यूतविजयः,
कृषिः कृषिफलम् , वाणिज्या वाणिज्यलाभः, द्विशफा गवादयः, एकशफा
अश्वादयः, ब्रह्मवर्चस्विनः पुत्राः वेदाध्ययनतदर्थानुष्ठानजनितं तेजो ब्रह्मवर्चसं
१. आनन्त्यफलं । २. पशून्मुख्यान्सुतानपि । ३. कृषिं च वाणिज्यं
द्विशफैकशफांस्तथा । ४. सन्मार्गाः ।