सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 178, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 178

१२२ याज्ञवल्क्यस्मृतिः
ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् ।
मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः ॥ २५९ ॥
हविष्यं हविर्योग्यं तिलव्रीह्यादि । यथाह मनुः (३।२६७)—'तिलैर्ब्रीहि-
यवैर्माषैरद्भिर्मूलफलेन वा। दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृणाम् ॥'१
इति । तदन्नं हविष्यान्नं तेन मासं पितरस्तृप्यन्तीत्यना^३ गतेनान्वयः। पायसेन
गव्यपयःसिद्धेन संवत्सरम्; संवत्सरं तु गव्येन पयसा पायसेन च' इति
(मनुः ३।२७१) स्मरणात् मत्स्यो अद्यः पाठीनादिस्तस्येदं मात्स्यम् । हरि-
णस्ताम्रमृगः । एणः कृष्णः, 'एणः कृष्णमृगो ज्ञेयस्ताम्रो हरिण उच्यते' इत्या-
युर्वेदस्मरणाद् । तस्येदं हारिणकम् । अविरुरभ्रस्तत्संबंधि औरभ्रम् । शकुनि-
स्तित्तिरिरितस्तत्संबंधि शाकुनम्, छागोऽजस्तदीयं छागम्, पृषच्चित्रमृगस्त-
न्मांसं४ पार्षतम् । एणः कृष्णमृगस्तत्पिशितमैणम् , रुरुः शंबरस्तत्प्रभवं रौरवम्,
वराह आरण्यसूकरस्तज्जं वाराहम् । शशस्येदं शाशम् , एभिर्मांसैः पितृभ्यो-
'दत्तैर्हविष्यान्नेन वै मासम्' इत्युक्तत्वात्तत ऊर्ध्वं यथाक्रममेकैकमासवृद्ध्या
पितरस्तृप्यन्ति ॥ २५८-२५९ ॥
भाषा—पितामह (अर्थात् पितरगण) हविष्य अन्न से एक मास तक,
और खीर से एक वर्ष तक तृप्त रहते हैं; पाठीन आदि मछली, ताम्रमृग,
उरभ्र (भेँड़ा) तित्तिर, बकरा, चित्रमृग, कृष्णमृग, रुरु, जंगली सुअर और
खरगोस के मांस श्राद्ध में देने पर क्रमशः एक-एक महीने अधिक समय तक
तृप्त रहते हैं ॥ २५८-२५९ ॥
खड्गामिषं महाशल्कं मधु मुन्यन्नमेव^५ वा ।
लौहामिषं महाँशाकं मांसं वार्ध्रीणसस्य च ॥ २६० ॥
यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते ।
तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ २६१ ॥
किंच, खड्गो गण्डकस्तस्य मांसम् , महाशल्को मत्स्यभेदः, मधु माक्षि-
कम् । मुन्यन्नं सर्वमारण्यं नीवारादि, लोहो रक्तच्छागस्तदामिषं लौहामि-
षम् । महाशाकं कालशाकम् । वार्ध्रीणसो वृद्धः श्वेतच्छागः—'त्रिपिबं त्विन्द्रि-
यक्षीणं वृद्धं श्वेतंमजापतिम् । वार्ध्रीणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि ॥'
इति याज्ञिकप्रसिद्धः । त्रिपिबः पिबतः कर्णौ जिह्वा च यस्य जलं स्पृशति सः,
१. फलैस्तथा । २. मासं प्रीयन्ते । ३. अनागतत्वेना । ४. शाकुनं
अद्यपष्टिसंबन्धि । ५. च । ६. कालशाकं । ७. वार्ध्रीणसस्य ।
८. वर्षास्वेवं त्रयोदश्याम् । ९. श्वेतं वृद्धमजापतिं ।