याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 126, कुल 782 में से
संदर्भ में पढ़ें७० याज्ञवल्क्यस्मृतिः
(४।२०३)—'नदीषु देवखातेषु तडागेषु सरःसु च । स्नानं समाचरेन्नित्यं
गर्तप्रस्रवणेषु च ॥' इति 'नित्य'ग्रहणात् । शौचार्थं तु यथासंभवं परवारिषु
पिण्डानुद्धरणे सर्वस्य निषेधः ॥ १५९ ॥
भाषा—दूसरे के पोखरे में पांच मुट्ठी मिट्टी निकाले बिना स्नान न करे ।
नदी, प्राकृतिक जलाशय ( पुष्कर आदि ), जलकुण्ड और झरने में (बिना मिट्टी
निकाले ही) स्नान करे ॥ १५९ ॥
परशय्यासनोद्यानगृहयानानि वर्जयेत् ।
अदत्तान्यग्निहीनस्य नान्नमाद्यादनापदि ॥ १६० ॥
शय्या कशिपुः, आसनं पीठादिः, उद्यानमाम्रादिवनम् । गृहं प्रसिद्धम्,
यानं रथादि, परसंबन्धीन्येतान्यदत्तान्यननुज्ञातानि वर्जयेत् नोपभुञ्जीत । अभो-
ज्यान्नान्याह—अग्निहीनस्येति । अग्निहीनस्य श्रौतस्मार्ताग्न्याधिकाररहितस्य
शूद्रस्य प्रतिलोमजस्य च अधिकारवतोऽप्यग्निरहितस्यान्नमनापदि न भुञ्जीत,
न प्रतिगृह्णीयाच्च । तस्मात्प्रशस्तानां स्वकर्मशुद्धजातीनां ब्राह्मणो भुञ्जीत
प्रतिगृह्णीयाच्च' ( १७ : १,२ इति गौतमवचनात् ) ॥ १६० ॥
भाषा—दूसरे की शय्या, आसन, उद्यान, घर और सवारी का उसकी
अनुमति के बिना उपयोग न करे । आपत्तिकाल न हो तो ( श्रौतस्मार्त अग्नि
के अधिकार से वञ्चित (शूद्र एवं प्रतिलोमज) अग्नि का आधान न करने वाले
व्यक्ति का अन्न न ग्रहण करे ॥ १६० ॥
कदर्यबद्धचौराणां क्लीबरङ्गावतारीणाम् ।
वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम् ॥ १६१ ॥
कदर्यो लुब्धः, 'आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् । लोभाद्यः पितरौ
भृत्यान्स कदर्य इति स्मृतः ॥' ( देवल ) इत्युक्तः । बद्धो निगडांदिना वाचा
सन्धितश्च, चौरा ब्राह्मणसुवर्णव्यतिरिक्तपरस्वापहारी, क्लीबो नपुंसकः, रङ्गावतारी
नटचारणमल्लादिः, वेणुच्छेदजीवी, वैणः अभिशस्तः पतनीयैः कर्मभिर्युक्तः,
वार्धुष्यो निषिद्धवृद्ध्युपजीवी, १ गणिका पण्यस्त्री, गणदीक्षी बहुयाजकः । एतेषामन्नं
नाश्नीयादित्यनुवर्तते ॥ १६१ ॥
भाषा—लोभी, ( बेड़ी आदि से) बद्ध, चोर, नपुंसक, नट, चारण, मल्ल
आदि रङ्गावतारी, वैण, पातक कर्मों से युक्त मनुष्य का, (अनुचित) ब्याज
लेनेवाले, वेश्या और बहुयाजक का (अन्न नहीं खाना चाहिए) ॥ १६१ ॥
१. वृद्ध्युपजीवी ।