याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 110, कुल 782 में से
संदर्भ में पढ़ें५४ याज्ञवल्क्यस्मृतिः
भाषा—शूद्र के लिये द्विजातियों की सेवा प्रधान कर्म है; उससे जीविका
न चलने पर वणिक्वृत्ति का आश्रय ले अथवा द्विजातियों के अनुकूल आचरण
करते हुए अनेक प्रकार के शिल्पों द्वारा जीवन निर्वाह करे ॥ १२० ॥
भार्यारतिः शुचिर्भृत्यभर्ता श्राद्धक्रियारतः¹ ।
नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥ १२१ ॥
किञ्च, भार्यायामेव न साधारणस्त्रीषु परस्त्रीषु वा रतिरभिगमनं यस्य स
तथोक्तः । शुचिः बाह्याभ्यन्तरशौचयुक्तः द्विजवत्, भृत्यादेर्भर्ता, श्राद्धक्रियारतः,
श्राद्धानि नित्यनैमित्तिककाम्यानि, क्रियाः स्नातकतन्त्रान्यविरुद्धानि, तेषु रतः ।
‘नम’ इत्यनेन मन्त्रेण पूर्वोक्तान्पञ्चमहायज्ञानहरहर्न हापयेदनुतिष्ठेत् । नमस्कार-
मन्त्रं च केचित्—‘देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै
स्वधायै नित्यमेव नमो नमः ॥’ इति वर्णयन्ति । ‘नमः’ इत्यन्ये । तत्र वैश्वदेवं
लौकिकेऽग्नौ कर्तव्यं, न वैवाहिकेऽग्नावित्याचार्याः ॥ १२१ ॥
भाषा—अपनी पत्नी में ही रत रहे, (द्विजों के समान ही) पवित्र रहे,
भृत्यों का पालन पोषण करे, श्राद्ध कर्म करे तथा नमस्कार के मन्त्र के साथ
पञ्च महायज्ञों को न छोड़े ॥ १२१ ॥
इदानीं साधारणधर्मानाह—
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १२२ ॥
हिंसा प्राणिपीडा, तस्या अकरणमहिंसा । सत्यमप्राणिपीडाकरं यथार्थवचनम्,
अस्तेयमदत्तानुपादानम्, शौचं बाह्याभ्यन्तरं च, बुद्धिकर्मेन्द्रियाणां
नियतविषयवृत्तिस्तेनिन्द्रियनिग्रहः । यथाशक्ति प्राणिनामन्नोदकादिदानेनार्तिपरिहारो
दानम् । अन्तःकरणसंयमो दमः । आपन्नरक्षणं दया । अपकारेऽपि
चित्तस्याविकारः क्षान्तिः । इत्येते सर्वेषां पुरुषाणां ब्राह्मणाद्याचण्डालान्तं²
धर्मसाधनम् ॥ १२२ ॥
भाषा—अहिंसा, सत्य, चोरी न करना, पवित्रता, इन्द्रियों का संयम, दान
देना, (अन्तःकरण का) संयम, (दुःखियों पर) दया और धैर्य धारण करना—
ये सभी व्यक्तियों के लिये धर्म के साधन हैं ॥ १२२ ॥
वयोबुद्ध्यर्थवाग्वेषश्रुताभिजनकर्मणाम् ।
आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ॥ १२३ ॥
१. क्रियापरः । २. जाचाण्डालान्तं ।