याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 109, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ५३
अनुगमनं शुश्रूषा, समासे ब्राह्मणो गुरुः' (७।१, २।३) इति गौतमस्मरणात् ।
एतान्यनापदि ब्राह्मणस्य षट् कर्माणि । तत्र त्रीणीज्यादीनि धर्मार्थानि, त्रीणि
प्रतिग्रहादीनि वृत्त्यर्थानि, 'षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥' इति (१०।१६) मनुस्मरणात् ।
अत इज्यादीन्यवश्यं कर्तव्यानि न प्रतिग्रहादीनि, 'द्विजातीनामध्ययनमिज्या
दानं, 'ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः', 'पूर्वेषु नियमः' (१०।१-३)
इति गौतमस्मरणात् ॥ ११८ ॥
भाषा—यज्ञ करना, (वेदादि का) अध्ययन और दान—ये कर्म क्षत्रिय
और वैश्य को करने होते हैं । ब्राह्मण के लिये दान लेना, यज्ञ कराना और
अध्यापन ये कर्म (क्षत्रिय और वैश्य से) अधिक होते हैं ॥ ११८ ॥
प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ॥ ११९ ॥
क्षत्रियस्य प्रजापालनं प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । वैश्यस्य कुसीद-
कृषिवाणिज्यपशुपालनानि वृत्त्यर्थानि कर्माणि । कुसीदं वृद्ध्यर्थं द्रव्यप्रयोगः,
लाभार्थं क्रयविक्रयौ वाणिज्यम् । शेषं प्रसिद्धम्; 'शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्-
पशुकृषी विशः। आजीवनाथं धर्मस्तु दानमध्ययनं यजिः ॥' इति (१०।७९)
मनुस्मरणात् ॥ ११९ ॥
भाषा—प्रजा का पालन करना क्षत्रिय का प्रधान कर्म है । वैश्य के
लिये ब्याज लेना, कृषि, वाणिज्य और पशु-पालन (वृत्त्यर्थक) कर्म बताए
गये हैं ॥ ११९ ॥
शूद्रस्य द्विजशुश्रूषा तयाऽजीवन्वणिग्भवेत् ।
शिल्पैर्वा विविधैर्जीवेद् द्विजातिहितंमाचरन् ॥ १२० ॥
शूद्रस्य द्विजशुश्रूषा प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । तत्र ब्राह्मणशुश्रूषा
परमो धर्मः, 'विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते' (१०।१२३) इति
मनुस्मरणात् । यदा पुनर्द्विजशुश्रूषया जीवितुं न शक्नोति तदा वणिग्वृत्त्या
जीवेत् । नानाविधैर्वा शिल्पैर्द्विजातीनां हितं कुर्वन् । यादृशैः कर्मभिर्द्विजाति-
शुश्रूषायामयोग्यो न भवति तादृशानि कर्माणि कुर्वन्नित्यर्थः । तानि च देव-
लोकोक्तानि—शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणकर्षणपशुपालनभारो-
द्वहनपण्यव्यवहारचित्रकर्मनृत्यगीतवेणुवीणामुरजमृदङ्गवादनादीनि' ॥ १२० ॥
१. हितमाचरेत् ।