सामग्री पर जाएँ
सर्वकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 668, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 668

पुरुषस्य तस्मिन्नहनि यादृशे सुखदुःखे भवताम् ॥ तादृशेपि संवत्सरे तस्य ज्ञेये । तस्मात्तन्नादि स्वाशितेन सुवाससा प्रहृष्टेन नागरेण भवितव्यम् ॥ एवं नगरे संभ्रम्य चित्रांगसं ज्ञात्वा प्रविष्टायां प्रतिमाचार्या महोत्सवं कुर्यात् । द्वितीयादिवसादारभ्य यावत्सामर्थ्यं प्रत्यहं नटनर्तकनर्तकीमहेंद्रजालिकादीनां प्रीत्यापूर्वकं धनं दद्यात् ॥ प्रेक्षाकाले च प्रेक्षकं जनं माल्यताम्बूलानुलेपनादिदानेनार्चयेत् । अध्यक्षानां प्रेक्षकाणां भूतानां रङ्गादिदिग्विदिग्षु सोदकमन्नाद्यं फलानि पुष्पाणि पल्लवोत्क्षेपिकामोदकानि विकिरेत् ॥ प्रेक्षकाणां गृहागतानां च श्रेष्ठखांडस्वस्त्युदीरयेत् । गृहागतांश्च प्रेक्षका आगामिनीं यात्रां कुर्यात्सुरालये ॥ स सर्वकामानाप्नुयान्नमितोत्पत्तौ तदुपशमनायानेन विधिना पुनर्यात्रां संम्यक्कुर्यात् ॥ अनेन विधिना यस्तु यात्रां कुर्यात्सुरालये ॥ स सर्वकामानाप्नोति विष्णुलोकं च गच्छति ॥ धन्यं यशस्यमायुष्यं राज्ञां च विजयप्रदम् ॥ नगराणां हितकरं यात्राकर्म प्रकीर्तितम् ॥ तुष्ट्यर्थं त्रिदशेन्द्राणां हितार्थं नगरस्य चा॥जनस्य राजनकर्त्तव्यं यात्राकर्म जयप्रदम्॥अतिवृष्टिकरे प्रोक्ते त्वनावृष्टिविनाशनम् ॥यात्राकर्म त्विदं कार्यं देवतायतने सदा॥ प्रतिसंवत्सरे राजन्राज्ञा विजयमिच्छता ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे यात्राविविधवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥

वज्र उवाच ॥
कांकां विष्णोस्तनुं मर्तः केन कामेन पूजयेत् ॥ एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे ॥ १ ॥

॥ मार्कण्डेय उवाच ॥
सर्वकामप्रदं देवं चतुर्मूर्तिं तु पूजयेत् ॥
पूजयेद्दिनषड्ढन्धुं धर्मकामो नरः सदा॥
आराधया सङ्कर्षणं देवमर्थकामस्तु पूजयेत्॥
कामकामोपि राजेन्द्र प्रद्युम्नं पूजयेद्विभुम्॥३॥
पुनर्यशोभिकामस्तु वासुदेवं जगत्प्रभुम् ॥
पुत्रकामस्तथा राजन्रजन्याभं च पूजयेत्॥४॥
ताक्ष्र्याश्च शिरसं देवं विद्याकामस्तु पूजयेत्॥
भोगानामाप्तिकामस्तु पूजयेद्रोगशायिनम्॥५॥
भोगियोगरासनसीनं स्थानकामस्तु पूजयेत् ॥
मत्स्यं संपूजयेद्देवं धान्यकामो नरः सदा ॥ ६ ॥
तथैवोरोगकामस्तु कूर्मदेवं च पूजयेत् ॥
ज्ञानकामस्तथा हंसं नृसिंहमथ वा विभुम्॥७॥
विद्याकामोऽथ वाल्मीकिं व्यासं वाप्यथ पूजयेत्॥
सांसारिकान्नपीडानहेतवे कपिलं तथा॥८॥
धृतिकामो वराहं तु नृवराहमथार्चयेत्॥
व्यवहारे रणे द्यूते जयकामस्तथा पृथक् ॥ ९ ॥
धर्मकामस्तथा धर्मं ब्रह्माणं चापि पूजयेत् ॥
शत्रूणां नाशकामस्तु महादेवं तु पूजयेत् ॥ १० ॥
पूजयेद्भार्गवं रामं प्रतिज्ञापारगेच्छया ॥
अथ वा राजशार्दूलं रामं दशरथात्मजम् ॥ ११ ॥
श्रीकामस्तु महाराज श्रीसहायं च पूजयेत् ॥
बलकामस्तथा देवं बलभद्रं प्रपूजयेत् ॥ १२ ॥
तमेव राजशार्दूलं कृषिकर्मप्रसिद्धये ॥
सर्वकामप्रदं देवं यथेष्टं तनुमाश्रितम् ॥ १३ ॥
पूजयेत्सर्वशक्तित्वात्सर्वकामफलप्रदम् ॥