सामग्री पर जाएँ
सर्वकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 667, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 667

वि० ध०
॥३७८॥

तृ० सं०
अ० १२०

निराशिषः पूजयितो वरेण्यं देवेश्वरं वासुदेवं पुराणम् ॥ गृहेऽष्टदोषोपगतं नवीरं स्थानं तदुक्तं परमं हि गत्वात् ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तप्तकाञ्चनपूजनवर्णनो नामाष्टादशोत्तरशततमोऽध्यायः ॥ ११८ ॥ वज्र उवाच ॥ कस्मिन्कर्मणि संप्राप्ते कांकां संपूजयेत्तनुम् ॥ कार्यसिद्धिामिप्रेप्सुस्तन्मे वद महामुने ॥ १ ॥ मार्कण्डेय उवाच ॥ समुद्रपोतयात्रायां मत्स्यं संपूजयेद्द्विजम् ॥ वराहं वा महाभाग नद्युत्तारे तथैव च ॥ २ ॥ संपूज्यद्वेश्वरिशो विद्यारम्भे तु मानवः ॥ त्रिविक्रमं तथा देवं यात्रिकाले तु पूजयेत् ॥ ३ ॥ विवाहकाले संप्राप्ते प्रद्युम्नं पूजयेन्नृप ॥ संस्कारेषु च सर्वेषु दत्तात्रेयं च पूजयेत् ॥ ४ ॥ कान्तारम्भे तु कर्तव्यं वाल्मीकिं व्यासमेव च ॥ अभिषेके तथा राज्ञां मत्स्यं वैन्यं च पूजयेत् ॥ ५ ॥ अवश्यं व्यवहारे च संग्रामे द्यूत एव वा ॥ वराहं पूजयेद्देवं मारम्मे कौषिकमपि ॥ ६ ॥ अथ वापि महाराज देवं सङ्कर्षणं विभुम् ॥ नृसिंहं पूजयेद्व व्यवहारिणिरोधने ॥ ७ ॥ प्रतिज्ञापालणे रामं भार्गवं वाथ राघवम् ॥ औषधस्य समारम्भे कूर्मं श्रीकृष्णमेव वा ॥ ८ ॥ तीर्थयात्रासमास्रम्भे हंसं संपूजयेद्धिसुम् ॥ वाणिज्यास्य समारम्भे तथैव गरुडध्वजम् ॥ ९ ॥ शिल्पे कर्मसमासम्भे विश्वरूपं समर्चयेत् ॥ तपसश्च समारम्भे नराणारायणावुभौ ॥ १० ॥ गृहप्रवेशे च तथा देवं भोगिशयं विभुम् ॥ धर्मं संपूजयेद्देवं धर्मकार्यप्रवर्तने ॥ ११ ॥ वराहं पूजयेद्बुद्धि र्दानवान्धान्यकर्मणि ॥ व्यालक्रूरजडेषु रिपुचौरभयेषु च ॥ १२ ॥ पूजयन्नृसिंहं तु सर्वबाधाविनाशनम् ॥ १३॥ गृहेष्टरूपं धर्मज्ञ सर्वकामार्थमर्थिप्सितं वज्र ददाति कामम् ॥ सर्वोस्यथाऽऽशु गृहेऽस्यस्यास्त्वकामकामोविन्दद्याति मोक्षम् ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कार्यकारम्भारूपप्रभूपूजनं नामैकोनविंशशततमोऽध्यायः ॥ ११९ ॥ वज्र उवाच ॥ कस्मिन्काले तु देवस्य प्रादुर्भावं कर्मार्चयेत् ॥ एतन्मे संशयं छिन्धि सुपुत्राविवर्धन ॥ १ ॥ ॥ मार्कण्डेय उवाच ॥ नृहयं त्वराहं च नरसिंहं च वामनम् ॥ त्रिविक्रमं तु धर्मज्ञ पञ्चस्वब्देषु पूजयेत् ॥ २ ॥ वासुदेवं हलंघरं पूजयेद्यनदये ॥ प्रद्युम्नमनिरुद्धं च तथा भोगशयं प्रभुम् ॥ ३ ॥ पञ्चानां दाशरथिं रामं भार्गवमेव च ॥ ४ ॥ वसन्तादिषु धर्मज्ञ पूजयेत्तु क्रमात् ॥ ५॥ गजेन्द्रमोक्षणं चैवं पृथुं वाल्मीकिमेव च ॥ ५ ॥ व्यासं च कृष्णं च नरं नरनारायणौ तथा ॥ रामं रामं तथा हरिं चैत्रादिषु क्रमात् ॥ ६ ॥ वह्नि प्रजापतिं सोमं रुद्रं श्रीकृष्णं तथा व्योमं शेषं वराहं च प्रद्युम्नं चार्ज्जुनं नृप ॥ ७ ॥ आदित्यं विश्वकर्म्माणं चक्रं देवं सुकेसरिम् ॥ गरुडं पुरुहूतं च कपिलं पञ्चमेव च ॥ ८ ॥

॥३७६॥