विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 194, कुल 392 में से
संदर्भ में पढ़ें१८६ ॥ विष्णुस्मृतौ ९० ॥
दीप्ताग्निर्भवति । १५ । कार्त्तिकी कृत्तिकायुता चेत्स्या-
त्तस्यां सितमुक्षाणमन्यवर्णं वा शशाङ्कोदये सर्वसस्य-
रत्नगन्धोपेतं दीपमध्ये ब्राह्मणाय दत्त्वा कान्तारभयं
न पश्यति । १६ । वैशाखशुक्लतृतीयायामुपोषितोऽक्ष-
तैर्वासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा च सर्वपापेभ्यः
पूतो भवति । १७ । यच्च तस्मिन्नहनि प्रयच्छति तद-
क्षय्यमाप्नोति । १८ । पौष्यां समतीतायां कृष्णपक्षद्वादश्यां
सोपवासस्तिलैः स्नातस्तिलोदकं दत्त्वा तिलैर्वासुदेव-
मभ्यर्च्य तानेव हुत्वा दत्त्वा भुक्त्वा च पापेभ्यः पूतो
भवति । १९ । माध्यां समतीतायां कृष्णद्वादश्यां सोप-
वासः श्रवणं प्राप्य वासुदेवाग्रतो महावर्तिद्वयेन दीप-
द्वयं दद्यात् । २०। दक्षिणपार्श्वे महारजनरक्तेन समग्रेण
वाससा घृततुलामष्टाधिकां दत्त्वा । २१ । वामपार्श्वे
तिलतैलतुलां साष्टां दत्त्वा श्वेतेन समग्रेण वाससा । २२ ।
16. ॰भयं नश्यति C^{1,2}. 23. एतत्कृत्वा कृतकृत्यो यस्मिन् ... स
तत्रोज्ज्वलो C^{1,2}.
17... यवैर्भगवन्तं संपूज्य यवानेव वासुदेवद्वादशाक्षरेणाष्टोत्तरसहस्रं
शतं वा हुत्वा ब्राह्मणाय च दत्त्वोत्तरेभ्यः पापेभ्यो मुच्यते ॥ 18. यच्च
सुवर्णरजतादि तद्दिने दद्यात्तदक्षयं भवति ।... 19... तिलैः स्नात्वा
तिलैः पितॄन्संतर्पयित्वा... 20...देवाग्रे वक्ष्यमाणलक्षणवर्तिद्वयेन दीपद्वयं
कृत्वा भगवते दद्यात् ॥ 21... सदशेन वाससा... अष्टोत्तरशतपल-
परिमितघृतान्वितेनैकां दीपयेत् ॥