सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 193, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 193

॥ विष्णुस्मृतौ ९० ॥ १८५
अनेन कर्मणा पुष्यते । ५ । माघी मघायुता चेत्तस्यां
तिलैः श्राद्धं कृत्वा पूतो भवति।६। फाल्गुनी फल्गुनी-
युता चेत्स्यात्तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णं शयनं
निवेद्य भार्यां मनोज्ञां रूपवतीं द्रविणवतीं चाप्नोति
। ७ । नार्यपि भर्तारम् । ८ । चैत्री चित्रायुता चेत्तस्यां
चित्रवस्त्रप्रदानेन सौभाग्यमाप्नोति । ९ । वैशाखी वि-
शाखायुता चेत्तस्यां ब्राह्मणसप्तकं क्षौद्रयुक्तैस्तिलैः
संतर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतो भवति।१०।
ज्येष्ठी ज्येष्ठायुता चेत्स्यात्तस्यां छत्रोपानहप्रदानेन गवा-
धिपत्यं प्राप्नोति । ११ । आषाढ्यामषाढायुक्तायामन्न-
पानदानेन तदेवाक्षय्यमाप्नोति । १२ । श्रावण्यां श्रव-
णयुक्तायां जलधेनुं सान्नां वासोयुगाच्छादितां दत्त्वा
स्वर्गमाप्नोति । १३ । प्रौष्ठपद्यां प्रौष्ठपद्युक्तायां गोदानेन
सर्वपापविनिर्मुक्तो भवति । १४ । आश्वयुज्यामश्विनी-
गते चन्द्रमसि घृतपूर्णं भाजनं सुवर्णयुतं विप्राय दत्त्वा


  1. भवति पूतः। V⁴. 7. फाल्गुनी-स्यात् om. V⁴. 23 स—XCIV,
  2. चर्म is wanting in v, two leaves having been lost.
  3. चेत्तस्यां C¹,².

  1. नार्यपि चेदुक्तविधिना शय्यां ददाति तदोक्तगुणविशिष्टं भर्तारं
    प्राप्नोति ॥ 10. वैशाख्यां विशाखायोगे सप्त विप्रान्धर्मराजप्रीतये मधु-
    मिश्रांस्तिलांश्च भोजयित्वा पापेभ्यो मुच्यते ॥ 11... गोमान्भवति ॥
    24