सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 195, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 195

॥ विष्णुस्मृतौ ९० । ९१ ॥ १८७

एतत्कृत्वा यस्मिन्नाष्ट्रेऽभिजायते यस्मिन्देशे यस्मिन्कुले
तत्रोज्ज्वलो भवति । २३ । आश्विनं सकलं मासं ब्रा-
ह्मणेभ्यः प्रत्यहं घृतं प्रदायाश्विनौ प्रीणयित्वा रूप-
भाग्भवति । २४ । तस्मिन्नेव मासि प्रत्यहं गोरसै-
र्ब्राह्मणान्भोजयित्वा राज्यभाग्भवति । २५ । प्रतिमासं
रेवतीयुते चन्द्रमसि मधुघृतयुतं रेवतीप्रीत्यै परमान्नं
ब्राह्मणान्भोजयित्वा रेवतीं प्रीणयित्वा रूपस्य भागी
भवति । २६ । माघे मासेऽग्निं प्रत्यहं तिलैर्हुत्वा सघृतं
कुल्माषं ब्राह्मणान्भोजयित्वा दीप्ताग्निर्भवति । २७ ।
सर्वां चतुर्दशीं नदीजले स्नात्वा धर्मराजानं पूजयित्वा
सर्वपापेभ्यः पूतो भवति । २८ ।
यदिच्छेद्विपुलान्भोगांश्चन्द्रसूर्यग्रहोपगान् ।
प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ ॥२९॥९०॥

अथ कूपकर्तुस्तत्प्रवृत्ते पानीये दुष्कृतस्यार्धं विन-
श्यति । १ । तडागकृन्नित्यतृप्तो वारुणं लोकमश्नुते । २ ।


  1. प्रदद्याद० C^{1, 2}. 26. रूपभाग्भवति । C^{1, 2}.
    25... दधिदुग्धादिभिर्गव्यैर्विप्रचयं संभोज्य राज्यमाप्नोति ॥ 27.
    चोन्विप्रान्संभोज्य दीप्तौदर्याग्निर्भवति ॥ XCI, 2... नित्यं पिपासारहि-
    तो वरुणलोकं प्राप्नोति ॥