सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 192, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 192

१८४ ॥ विष्णुस्मृतौ ८९ । ९० ॥
कार्त्तिकं सकलं मासं नित्यस्नायी जितेन्द्रियः ।
जपन्हविष्यभुग्दान्तः सर्वपापैः प्रमुच्यते ॥ ४ ॥ ८९ ॥
मार्गशीर्षशुक्लपञ्चदश्यां मृगशिरसा युक्तायां चूर्णी-
तलवणस्य सुवर्णनाभं प्रस्थमेकं चन्द्रोदये ब्राह्मणाय
प्रदापयेत् । १ । अनेन कर्मणा रूपसौभाग्यवानभिजा-
यते । २ । पौषी चेत्पुष्ययुक्ता स्यात्तस्यां गौरसर्षपकल्को-
द्वर्तितशरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सर्वौषधिभिः
सर्वगन्धैः सर्वबीजैश्च स्नातो घृतेन भगवन्तं वासुदेवं
स्नापयित्वा गन्धपुष्पधूपदीपनैवेद्यादिभिरभ्यर्च्य वैष्णवैः
शाक्रैर्बार्हस्पत्यैश्च मन्त्रैः पावके हुत्वा ससुवर्णेन घृतेन
ब्राह्मणान्स्वस्ति वाचयेत् । ३ । वासोयुगं कर्त्रे दद्यात् । ४ ।
4. दाता C¹·². XC, 1. मृगशिरःसंयुक्तायां C¹·²v. 3. पावकं
V¹⁻⁴ Ap. ; चाग्नौ N.
LXXXIX, 2. अग्निमुखा वै देवा इति ॥ 4... नित्यमविच्छेदेना-
रुणोदये स्नानशीलो बाह्येन्द्रियजयी गायत्रीं जपन् ... XC, 1... पि-
ष्टस्य लवणस्य प्रस्थं षोडशपलं सुवर्णः षोडशमाषो नाभौ मध्ये यस्य तं
चन्द्रोदयकाले विप्राय विधिना दद्यात् ॥ 3... गोघृतेन कुम्भपरिमिते-
नाभिषिक्तः सर्वौषधैः... चकाराज्जलेश्च स्नातः ... वैष्णवैरिदं विष्णु-
र्विचक्रमे इत्यादिभिः । शाक्रैस्त्रातारमिन्द्रमित्यादिभिः । बार्हस्पत्यैर्बृहस्पते
अति यदर्य इत्यादिभिश्चकारात्स्विष्टकृन्मन्त्रेण चाग्नौ हुत्वा ससुवर्णं घृतं
त्रिभ्यो ब्राह्मणेभ्यो दद्यात्ते च स्वस्तीति प्रतिगृह्णीयुः ॥ 4. होमकर्त्रे...