सामग्री पर जाएँ
सर्वकोश
विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

पृष्ठ 137, कुल 392 में से

संदर्भ में पढ़ें
पृष्ठ 137

विष्णुस्मृतौ ५५ ॥ १२६
सहस्रकृत्वस्त्वभ्यस्य बहिरैतत्त्रिकं द्विजः ।
महतोऽप्येनसो मासात्त्वचेवाहिविमुच्यते ॥ १३ ॥
एतत्तयविसंयुक्तः काले च क्रियया स्वया ।
विप्रक्षत्रियविङ्जातिर्गर्हणां याति साधुषु ॥ १४ ॥
ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ।
त्रिपदा चैव गायत्री विज्ञेयं ब्रह्मणो मुखम् ॥ १५ ॥
योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः ।
स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ १६ ॥
एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः ।
सावित्र्यास्तु परं नास्त्यमौनात्सत्यं विशिष्यते ॥ १७ ॥
क्षरन्ति सर्ववैदिक्यो जुहोतिविजतिक्रियाः ।
अक्षरं त्वक्षरं ज्ञेयं ब्रह्मा चैव प्रजापतिः ॥ १८ ॥
14. गर्ह्यां C^(1.2). See M. II, 80. 15. विज्ञेया V⁴. 17. परं
नास्ति C^(1.2)v (and M. II, 83).
14. यस्त्वैविद्यिको गायत्र्यादिकं न जानाति जानन्नपि वा संध्याकाले
स्वां क्रियां गायत्रीजपरूपां न करोति स साधुषु वैदिकेषु गर्हणां निन्दां
प्राप्नोति ।... 16. यो वर्षत्रयं ... प्रत्यहं प्रणवेन व्याहृतिपूर्विकां गायत्रीं
सच्छन्दांसो जपति स वायुभूतो दृश्यरूपरहितः कामचारी खमूर्तिमाना-
काशवन्निर्लेप। लिङ्गशरीरनाशेन शुद्धस्वरूपः ... परं ब्रह्माभ्येति ॥ 18.
श्रुतिस्मृतिविहिता यागदानहोमजपादिक्रियाः ।...
17
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry