विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 12, कुल 392 में से
संदर्भ में पढ़ें8 ॥ विष्णुस्मृतौ १ ॥
अविज्ञातां गतिं याते देवदेवे जनार्दने ।
वसुधा चिन्तयामास का धृतिर्मे भविष्यति ॥ १९ ॥
पृच्छामि कश्यपं गत्वा स मे वक्ष्यत्यसंशयम् ।
मदीयां वहते चिन्तां नित्यमेव महामुनिः ॥ २० ॥
एवं सा निश्चयं कृत्वा देवी स्त्रीरूपधारिणी ।
जगाम कश्यपं द्रष्टुं दृष्ट्वांस्तां च कश्यपः ॥ २१ ॥
नीलपङ्कजपत्राक्षीं शारदेन्दुनिभाननाम् ।
अलिसंघालकां शुभ्रां बन्धुजीवाधरां शुभाम् ॥ २२ ॥
सुभ्रूं सुसूक्ष्मदशनां चारुनासां नतध्रुवम् ।
कम्बुकण्ठीं संहतोमूं पीनोरुजघनस्थलाम् ॥ २३ ॥
विरेजतुः स्तनौ यस्याः समौ पीनौ निरन्तरौ ।
शक्रेभकुम्भसंकाशौ शातकुम्भसमद्युती ॥ २४ ॥
मृणालकोमलौ बाहू करौ किसलयोपमौ ।
रुक्मस्तम्भनिभावूरू गूढे श्लिष्टे च जानुनी ॥ २५ ॥
21. स C¹,²v. 22. बन्धुपुष्पा० V⁴. 23. सुशुभ्रस्पृष्टदशनां C¹,²;
सुशुभ्रदशनां v. ०स्थलं ॥ V¹⁻³; ०स्थलीं ॥ C¹,²; ०स्तनीं v. 24. विरे-
जतुस्तना C¹,². मत्तेभकुम्भ० C¹,²v. 25. श्लिष्टे all; अश्लिष्टे अनभि-
व्यक्तसंधिनी N.
19... मयेदानीं धृतिराधारशक्तिः का भविष्यति ॥ 23... परस्परस्पर्श-
सुखानुबुभूषया चान्योन्यसंश्लिष्टोरुयुगलां... पीनताभूषितोरुजघनविधयाम् ॥
24. समौ गर्वपर्वताविव स्वस्थानादचलितौ । युगपत्तुलया तुलिताविवान्यूना-
धिकपरिमाणौ वा ! ... निरन्तरावन्योन्यसंश्लेषिणौ । शक्रेभकुम्भाविव विस्रस्ता-
मुक्ताकलापौ । मदनमहाराजमचाराज्याभिषेकायासादितौ बहलकुङ्कुमा-
र्चितौ शातकुम्भकुम्भाविव राजमानावुरोजौ... 25... गूढे अतिमांसलतया
अस्पष्टे...