विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 13, कुल 392 में से
संदर्भ में पढ़ें॥ विष्णुस्मृतौ १ ॥ ५
जङ्घे विरोमे सुसमे पादावतिमनोरमौ ।
जघनं च घनं मध्यं यथा केशरिणः शिशोः ॥ २६ ॥
प्रभायुता नखास्ताम्रा रूपं सर्वमनोहरम् ।
कुर्वाणां वीक्षितैर्नित्यं नीलोत्पलयुता दिशः ॥ २७ ॥
कुर्वाणां प्रभया देवीं तथा वितिमिरा दिशः ।
सुसूक्ष्मशुक्लवसनां रत्नोत्तमविभूषिताम् ॥ २८ ॥
पदन्यासैर्वसुमतीं सपद्मामिव कुर्वतीं ।
रूपयौवनसंपन्नां विनीतवदुपस्थिताम् ॥ २९ ॥
समीपमागतां दृष्ट्वा पूजयामास कश्यपः ।
उवाच तां वरारोहे विज्ञातं हृद्गतं मया ॥ ३० ॥
धरे तव विशालाक्षि गच्छ देवि जनार्दनम् ।
स ते वक्ष्यत्यशेषेण भाविनी ते यथा धृतिः ॥ ३१ ॥
क्षीरोदे वसतिस्तस्य मया ज्ञाता शुभानने ।
ध्यानयोगेन चार्वङ्गि त्वदर्थं तत्प्रसादतः ॥ ३२ ॥
एवमित्युक्ता संपूज्य कश्यपं वसुधा ततः ।
प्रययौ केशवं द्रष्टुं क्षीरोदमथ सागरम् ॥ ३३ ॥
सा ददर्शामृतनिधिं चन्द्ररश्मिमनोहरम् ।
31. स्थितिः ॥ C¹'²v. 32. तज्ज्ञानं C¹'²; तदङ्गं v. 33. इत्येव-
मुक्ता V¹⁻³ C¹'²v ; यथा भगवतोच्यते एवमित्युक्ता N.
26. आरोहावारोहाभ्यामतिसमौ... 27...दिशः। दिग्भागान्नीलोत्पल-
युतानिव कुर्वाणाम् ॥ 32...तत्प्रसादत इति निजयोगोपायनिर्देशः। ...