विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
पृष्ठ 11, कुल 392 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the Sanskrit verses, critical apparatus, and commentary:
॥ विष्णुस्मृतौ १ ॥ ३
उद्धृत्य निश्चले स्थाने स्थापयित्वा तथा स्वके ।
यथास्थानं विभज्यापस्तद्गता मधुसूदनः ॥ १३ ॥
सामुद्राश्च समुद्रेषु नादेयीश्च नदीषु च ।
पल्वलेषु च पाल्वल्यः सरःसु च सरोभवाः ॥ १४ ॥
पातालसप्तकं चक्रे लोकानां सप्तकं तथा ।
द्वीपानामुदधीनां च स्थानानि विविधानि च ॥ १५ ॥
स्थानपालांल्लोकपालान्नदींशैलवनस्पतीन् ।
ऋषींश्च सप्त धर्मज्ञान्वेदान्साङ्गान्सुरासुरान् ॥ १६ ॥
पिशाचोरगगन्धर्वयक्षराक्षसमानुषान् ।
पशुपक्षिमृगांश्चांश्च भूतग्रामं चतुर्विधम् ॥
मेघेन्द्रचापशम्याद्यान्यज्ञांश्च विविधांस्तथा ॥ १७ ॥
एवं वराहो भगवान्कृत्वेदं सचराचरम् ।
जगज्गाम लोकानामविज्ञातां तदा गतिम् ॥ १८ ॥
13. स्थापिता च C¹˒²v. • 14. सामुद्राश्च and पाल्वल्यः (पाल्वल्यः)
all; the latter for metrical reasons. The sense and the
analogy with नादेयीश्च would have required accusative
forms. सरोवराः ॥ C¹˒²; सरोद्गवाः ॥ v, from the C. 16. नदीः
V¹⁻⁴. 17. c om. v. ॰चापसम्प्रातान् C¹˒². 18. विष्णुः स्थावर-
जङ्गमं । चराचरं जगत्कृत्वा तत्रैवान्तरधीयत ॥ V⁴.
13, 14...स्थापयित्वा तद्गताः पृथिवीस्थाः समुद्रजा अपः समुद्रेषु...
यथास्थानं विभज्य गमयित्वा... 17. ... इन्द्रचाप इन्द्रधनुः । शम्या
विद्युत् । आदिशब्देन ग्रहनक्षत्रादीनां ग्रहणम्... 18...वराहो वराह-
रूपो विष्णुरिदं चराचरं ( सचरा० ? ) स्थावरजङ्गमं जगद्विश्वं कृत्वा
लोकानां... अविज्ञातामलक्षितां गतिं स्थानं जगाम...