विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)
Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita
महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा
DevanagariSanskritpublished392 पृष्ठ
पृष्ठ 10, कुल 392 में से
संदर्भ में पढ़ेंपृष्ठ 10
२ ॥ विष्णुस्मृतौ १ ॥
उद्गात्रान्त्रो होमलिङ्गो बीजौषधिमहाफलः ।
वेद्यन्तरात्मा मन्त्रस्फिग्विह्वतः सोमशोणितः ॥ ६ ॥
वेदिस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान् ।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः ॥ ७ ॥
दक्षिणाहृदयो योगमहामन्त्रमयो महान् ।
उपाकर्मौष्ठरुचिरः प्रवर्ग्यावर्तभूषणः ॥ ८ ॥
नानाछन्दोगतिपथो गुह्योपनिषदासनः ।
छायापत्नीसहायो वै मणिशृङ्ग इवोदितः ॥ ९ ॥
महीं सागरपर्यन्तां सशैलवनकाननाम् ।
एकार्णवजलभ्रष्टामेकार्णवगतः प्रभुः ॥ १० ॥
दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया ।
आदिदेवो महायोगी चकार जगतीं पुनः ॥ ११ ॥
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।
उद्धृता पृथिवी सर्वा रसातलगता पुरा ॥ १२ ॥