विष्णुसहस्रनाम स्तोत्र (महाभारत अनुशासन पर्व - जगद्गुरु आदि शंकराचार्य भाष्य सानुवाद सटीक)
Vishnu Sahasranama with Shankara Bhashya
महर्षि वेदव्यास / जगद्गुरु आदि शंकराचार्य द्वारा
४ श्रीविष्णुसहस्रनामस्तोत्रम्
योगी योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः (२४) ॥ १६ ॥
सर्वः शर्वः शिवः स्थाणु र्भूतादि र्निधि रव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभु रीश्वरः (३७) ॥ १७ ॥
स्वयंभूः शंभु रादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः (४६) ॥ १८ ॥
अप्रमेयो हृषीकेशः पद्मनाभो ऽमरप्रभुः ।
विश्वकर्मा मनु स्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः (५५) ॥ १९ ॥
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूत स्त्रिककुब्धाम पवित्रं मंगलं परम् (६४) ॥ २० ॥
ईशानः प्राणदः प्राणो ऽज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः (७३) ॥ २१ ॥
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृति रात्मवान् (८४) ॥ २२ ॥
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः (९४) ॥ २३ ॥
अजः सर्वेश्वरः सिद्धः सिद्धः सर्वादि रच्युतः ।
वृषाकपि रमेयात्मा सर्वयोगविनिःसृतः (१०३) ॥ २४ ॥
वसु र्वसुमनाः सत्यः समात्मा संमितः समः ।
अमोघः पुंडरीकाक्षो वृषकर्मा वृषाकृतिः (११३) ॥ २५ ॥
रुद्रो बहुशिरा बभ्रु र्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतः स्थाणु र्वरारोहो महातपाः (१२२) ॥ २६ ॥
सर्वगः सर्वविद्भानु र्विष्वक्सेनो जनार्दनः ।
वेदो वेदवि दव्यंगो वेदांगो वेदवित् कविः (१३२) ॥ २७ ॥
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूह श्चतुर्दंष्ट्र श्चतुर्भुजः (१४०) ॥ २८ ॥
श्रीविष्णुसहस्रनामस्तोत्रम् ५
भ्राजिष्णु भोजनं भोक्ता सहिष्णु र्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः (150) ॥ २९ ॥
उपेन्द्रो वामनः प्रांशु रमोघः शुचि रूर्जितः ।
अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः (162) ॥ ३० ॥
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतींद्रियो महामायो महोत्साहो महाबलः (172) ॥ ३१ ॥
महाबुद्धि र्महावीर्यो महाशक्ति र्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमा नमेयात्मा महाद्रिधृक् (180) ॥ ३२ ॥
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानंदो गोविंदो गोविदां पतिः (188) ॥ ३३ ॥
मरीचि र्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः (197) ॥ ३४ ॥
अमृत्युः सर्वदृक् सिंहः संधाता संधिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा (208) ॥ ३५ ॥
गुरु र्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषो ऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः (217) ॥ ३६ ॥
अग्रणी र्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् (227) ॥ ३७ ॥
आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः ।
अहस्संवर्तको वह्नि रनिलो धरणीधरः (235) ॥ ३८ ॥
सुप्रसादः प्रसन्नात्मा विश्वधृ ग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतिः साधु र्जन्हु र्नारायणो नरः (246) ॥ ३९ ॥
असंख्येयो ऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः (255) ॥ ४० ॥
वृषाही वृषभो विष्णु र्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः (264) ॥ ४१ ॥
६ श्रीविष्णुसहस्रनामस्तोत्रम्
सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः (274) ॥ ४२ ॥
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मंत्र श्चंद्रांशु र्भास्करद्युतिः (282) ॥ ४३ ॥
अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः ।
औषधं जगतस्सेतुः सत्यधर्मपराक्रमः (289) ॥ ४४ ॥
भूतभव्यभवन्नाथः पवनः पावनो ऽनलः ।
कामहा कामकृत् कांतः कामः कामप्रदः प्रभुः (299) ॥ ४५ ॥
युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो ऽव्यक्तरूपश्च सहस्रजि दनंतजित् (307) ॥ ४६ ॥
इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहु महीधरः (317) ॥ ४७ ॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधि रधिष्ठान मप्रमत्तः प्रतिष्ठितः (326) ॥ ४८ ॥
स्कंदः स्कंदधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानु रादिदेवः पुरंदरः (335) ॥ ४९ ॥
अशोक स्तारण स्तारः शूरः शौरि र्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः (345) ॥ ५० ॥
पद्मनाभो ऽरविंदाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धि र्ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः (354) ॥ ५१ ॥
अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिंजयः (362) ॥ ५२ ॥
विक्षरो रोहितो मार्गो हेतु र्दामोदरः सहः ।
महीधरो महाभागो वेगवा नमिताशनः (372) ॥ ५३ ॥
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः (383) ॥ ५४ ॥
श्रीविष्णुसहस्रनामस्तोत्रम् ७
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्धिः परमस्पष्ट स्तुष्टः पुष्टः शुभेक्षणः (393) ॥ ५५ ॥
रामो विरामो विरजो मार्गो नेयो नयो ऽनयः ।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः (404) ॥ ५६ ॥
वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्यासो वायु रधोक्षजः (415) ॥ ५७ ॥
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः (425) ॥ ५८ ॥
विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थो ऽनर्थो महाकोशो महाभोगो महाधनः (434) ॥ ५९ ॥
अनिर्विण्णः स्थविष्ठो भू र्धर्मयूपो महामखः ।
नक्षत्रनेमि र्नक्षत्री क्षमः क्षामः समीहनः (444) ॥ ६० ॥
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् (454) ॥ ६१ ॥
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहु र्विदारणः (464) ॥ ६२ ॥
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः (474) ॥ ६३ ॥
धर्मगु ब्धर्मकृ द्धर्मी स दसत् क्षर मक्षरम् ।
अविज्ञाता सहस्रांशु र्विधाता कृतलक्षणः (485) ॥ ६४ ॥
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः (493) ॥ ६५ ॥
उत्तरो गोपति र्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता कपींद्रो भूरिदक्षिणः (502) ॥ ६६ ॥
सोमपो ऽमृतपः सोमः पुरुजित् पुरुसत्तमः ।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः (512) ॥ ६७ ॥
श्रीविष्णुसहस्रनामस्तोत्रम्
जीवो विनयिता साक्षी मुकुंदो ऽमितविक्रमः ।
अंभोनिधि रनंतात्मा महोदधिशयो ऽन्तकः (520) ॥ ६८ ॥
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः (530) ॥ ६९ ॥
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपद स्त्रिदशाध्यक्षो महाशृंगः कृतांतकृत् (537) ॥ ७० ॥
महावराहो गोविंदः सुषेणः कनकांगदी ।
गुह्यो गभीरो गहनो गुप्त श्चक्रगदाधरः (546) ॥ ७१ ॥
वेधाः स्वांगो ऽजितः कृष्णो दृढः संकर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः (557) ॥ ७२ ॥
भगवान् भगहा ऽनंदी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णु र्गतिसत्तमः (566) ॥ ७३ ॥
सुधन्वा खंडपरशु र्दारुणो द्रविणप्रदः ।
दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः (573) ॥ ७४ ॥
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शांतो निष्ठा शांतिः परायणः (585) ॥ ७५ ॥
शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपति र्गोप्ता वृषभाक्षो वृषप्रियः (595) ॥ ७६ ॥
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः (604) ॥ ७७ ॥
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्रयाश्रयः (614) ॥ ७८ ॥
स्वक्षः स्वंगः शतानंदो नंदि र्ज्योतिर्गणेश्वरः ।
विजितात्मा विधेयात्मा सत्कीर्ति श्छिन्नसंशयः (623) ॥ ७९ ॥
उदीर्णः सर्वतश्चक्षु रनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूति र्विशोकः शोकनाशनः (632) ॥ ८० ॥
श्रीविष्णुसहस्रनामस्तोत्रम् ९
अर्चिष्मा नर्चितः कुंभो विशुद्धात्मा विशोधनः ।
अनिरुद्धो ऽप्रतिरथः प्रद्युम्नो ऽमितविक्रमः (641) ॥ ८१ ॥
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः (650) ॥ ८२ ॥
कामदेवः कामपालः कामी कांतः कृतागमः ।
अनिर्देश्यवपुर्विष्णु र्वीरो ऽनंतो धनंजयः (660) ॥ ८३ ॥
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः (670) ॥ ८४ ॥
महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतु र्महायज्वा महायज्ञो महाहविः (678) ॥ ८५ ॥
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्ति रनामयः (689) ॥ ८६ ॥
मनोजव स्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसु र्वसुमना हविः (698) ॥ ८७ ॥
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः (707) ॥ ८८ ॥
भूतावासो वासुदेवः सर्वासुनिलयो ऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरो ऽथापराजितः (716) ॥ ८९ ॥
विश्वमूर्ति र्महामूर्ति र्दीप्तमूर्ति रमूर्तिमान् ।
अनेकमूर्ति रव्यक्तः शतमूर्तिः शताननः (724) ॥ ९० ॥
एको नैकः सवः कः किं यत् तत् पदमनुत्तमम् ।
लोकबंधु र्लोकनाथो माधवो भक्तवत्सलः (736) ॥ ९१ ॥
सुवर्णवर्णो हेमांगो वरांग श्चंदनांगदी ।
वीरहा विषमः शून्यो घृताशी रचल श्चलः (746) ॥ ९२ ॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः (756) ॥ ९३ ॥
१० श्रीविष्णुसहस्रनामस्तोत्रम्
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो ऽव्यग्रो नैकशृंगो गदाग्रजः (764) ॥ ९४ ॥
चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गतिः ।
चतुरात्मा चतुर्भाव श्चतुर्वेदवि देकपात् (772) ॥ ९५ ॥
समावर्तो ऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा (781) ॥ ९६ ॥
शुभांगो लोकसारंगः सुतंतु स्तंतुवर्धनः ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः (789) ॥ ९७ ॥
उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृंगी जयंतः सर्वविज्जयी (799) ॥ ९८ ॥
सुवर्णबिंदु रक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महाविधिः (806) ॥ ९९ ॥
कुमुदः कुंदरः कुंदः पर्जन्यः पवनो ऽनिलः ।
अमृतांशो ऽमृतवपुः सर्वज्ञः सर्वतोमुखः (816) ॥ १०० ॥
सुलभः सुव्रतः सिद्धः शत्रुजि च्छत्रुतापनः ।
न्यग्रोधो दुंबरो ऽश्वत्थ श्चाणूरांध्रनिषूदनः (825) ॥ १०१ ॥
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्ति रनघो ऽचिंत्यो भयकृ द्भयनाशनः (834) ॥ १०२ ॥
अणु र्बृहत् कृशः स्थूलो गुणभृ न्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः (846) ॥ १०३ ॥
भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रवणः क्षामः सुपर्णो वायुवाहनः (856) ॥ १०४ ॥
धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।
अपराजितः सर्वसहो नियंता नियमो यमः (866) ॥ १०५ ॥
सत्ववान् सात्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्हो ऽर्हः प्रियकृत् प्रीतिवर्धनः (875) ॥ १०६
श्रीविष्णुसहस्रनामस्तोत्रम् ११
विहायसगति र्ज्योतिः सुरुचि र्हुतभुग्विभुः ।
रवि र्विरोचनः सूर्यः सविता रविलोचनः (885) ॥ १०७ ॥
अनंतो हुतभु ग्भोक्ता सुखदो नैकदो ऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठान मद्भुतः (895) ॥ १०८ ॥
सनात् सनातनतमः कपिलः कपि रव्ययः ।
स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः (905) ॥
अरौद्रः कुंडली चक्री विक्र म्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः (914) ॥ ११० ॥
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः (922) ॥ १११ ॥
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः (931) ॥ ११२ ॥
अनन्तरूपो ऽनंतश्री र्जितमन्यु र्भयापहः ।
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः (940) ॥ ११३ ॥
अनादि र्भूर्भुवो लक्ष्मीः सुवीरो रुचिरांगदः ।
जननो जनजन्मादि र्भीमो भीमपराक्रमः (949) ॥ ११४ ॥
आधारनिलयो धाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः (958) ॥ ११५ ॥
प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ।
तत्त्वं तत्त्ववि देकात्मा जन्ममृत्युजरातिगः (966) ॥ ११६ ॥
भूर्भुवःस्वस्तरु स्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपति र्यज्वा यज्ञांगो यज्ञवाहनः (975) ॥ ११७ ॥
यज्ञभृ द्यज्ञकृ द्यज्ञी यज्ञभु ग्यज्ञसाधनः ।
यज्ञान्तकृ द्यज्ञगुह्य मन्न मन्नाद एव च (984) ॥ ११८ ॥
आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनंदनः स्रष्टा क्षितीशः पापनाशनः (992) ॥ ११९ ॥
28
१२
शंखभृ नंदकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथांगपाणि·रक्षोभ्यः सर्वप्रहरणायुधः (1000) ॥
सर्वप्रहरणायुधोन्नम इति ॥ १२० ॥
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १२१ ॥
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ १२२ ॥
वेदांतगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ १२३ ॥
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ १२४ ॥
भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ १२५ ॥
यशः प्राप्नोति विपुलं याति प्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ १२६ ॥
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विंदति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ १२७ ॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बंधनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ १२८ ॥
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ १२९ ॥
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १३० ॥
न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ १३१ ॥
श्रीविष्णुसहस्रनामस्तोत्रम् १३
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षांतिश्रीधृतिस्मृतिकीर्तिभिः ॥ १३२ ॥
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवंति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ १३३ ॥
द्यौः सचंद्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १३४ ॥
ससुरासुरगंधर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १३५ ॥
इंद्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १३६ ॥
सर्वागमानामाचारः प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १३७ ॥
ऋषयः पितरो देवा महाभूतानि धातवः ।
जंगमाजंगमं चेदं जगन्नारायणोद्भवम् ॥ १३८ ॥
योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादिकर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १३९ ॥
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रीन् लोकान्व्याप्य भूतात्मा भुंक्ते विश्वभुगव्ययः ॥ १४० ॥
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ १४१ ॥
विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् ।
भजंति ये पुष्कराक्षं न ते यांति पराभवम् ॥ १४२ ॥
इति श्रीमहाभारते आनुशासनिके भीष्मयुधिष्ठिरसंवादे विष्णोर्दिव्य-
सहस्रनामस्तोत्रं नाम एकोनपंचाशदधिकशततमोऽध्यायः ॥
॥ श्रीरस्तु ॥
Printed by J. R. Aria, at the Vasanta Press, Adyar, Madras.