सामग्री पर जाएँ
सर्वकोश
विष्णुसहस्रनाम स्तोत्र (महाभारत अनुशासन पर्व - जगद्गुरु आदि शंकराचार्य भाष्य सानुवाद सटीक)

विष्णुसहस्रनाम स्तोत्र (महाभारत अनुशासन पर्व - जगद्गुरु आदि शंकराचार्य भाष्य सानुवाद सटीक)

Vishnu Sahasranama with Shankara Bhashya

महर्षि वेदव्यास / जगद्गुरु आदि शंकराचार्य द्वारा

DevanagariHindipublished194 पृष्ठ

पृष्ठ 191, कुल 194 में से

संदर्भ में पढ़ें
पृष्ठ 191

१० श्रीविष्णुसहस्रनामस्तोत्रम्
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो ऽव्यग्रो नैकशृंगो गदाग्रजः (764) ॥ ९४ ॥
चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गतिः ।
चतुरात्मा चतुर्भाव श्चतुर्वेदवि देकपात् (772) ॥ ९५ ॥
समावर्तो ऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा (781) ॥ ९६ ॥
शुभांगो लोकसारंगः सुतंतु स्तंतुवर्धनः ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः (789) ॥ ९७ ॥
उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृंगी जयंतः सर्वविज्जयी (799) ॥ ९८ ॥
सुवर्णबिंदु रक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महाविधिः (806) ॥ ९९ ॥
कुमुदः कुंदरः कुंदः पर्जन्यः पवनो ऽनिलः ।
अमृतांशो ऽमृतवपुः सर्वज्ञः सर्वतोमुखः (816) ॥ १०० ॥
सुलभः सुव्रतः सिद्धः शत्रुजि च्छत्रुतापनः ।
न्यग्रोधो दुंबरो ऽश्वत्थ श्चाणूरांध्रनिषूदनः (825) ॥ १०१ ॥
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्ति रनघो ऽचिंत्यो भयकृ द्भयनाशनः (834) ॥ १०२ ॥
अणु र्बृहत् कृशः स्थूलो गुणभृ न्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः (846) ॥ १०३ ॥
भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रवणः क्षामः सुपर्णो वायुवाहनः (856) ॥ १०४ ॥
धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।
अपराजितः सर्वसहो नियंता नियमो यमः (866) ॥ १०५ ॥
सत्ववान् सात्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्हो ऽर्हः प्रियकृत् प्रीतिवर्धनः (875) ॥ १०६