सामग्री पर जाएँ
सर्वकोश
विष्णुसहस्रनाम स्तोत्र (महाभारत अनुशासन पर्व - जगद्गुरु आदि शंकराचार्य भाष्य सानुवाद सटीक)

विष्णुसहस्रनाम स्तोत्र (महाभारत अनुशासन पर्व - जगद्गुरु आदि शंकराचार्य भाष्य सानुवाद सटीक)

Vishnu Sahasranama with Shankara Bhashya

महर्षि वेदव्यास / जगद्गुरु आदि शंकराचार्य द्वारा

DevanagariHindipublished194 पृष्ठ

पृष्ठ 187, कुल 194 में से

संदर्भ में पढ़ें
पृष्ठ 187

६ श्रीविष्णुसहस्रनामस्तोत्रम्
सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः (274) ॥ ४२ ॥
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मंत्र श्चंद्रांशु र्भास्करद्युतिः (282) ॥ ४३ ॥
अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः ।
औषधं जगतस्सेतुः सत्यधर्मपराक्रमः (289) ॥ ४४ ॥
भूतभव्यभवन्नाथः पवनः पावनो ऽनलः ।
कामहा कामकृत् कांतः कामः कामप्रदः प्रभुः (299) ॥ ४५ ॥
युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो ऽव्यक्तरूपश्च सहस्रजि दनंतजित् (307) ॥ ४६ ॥
इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहु महीधरः (317) ॥ ४७ ॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधि रधिष्ठान मप्रमत्तः प्रतिष्ठितः (326) ॥ ४८ ॥
स्कंदः स्कंदधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानु रादिदेवः पुरंदरः (335) ॥ ४९ ॥
अशोक स्तारण स्तारः शूरः शौरि र्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः (345) ॥ ५० ॥
पद्मनाभो ऽरविंदाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धि र्ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः (354) ॥ ५१ ॥
अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिंजयः (362) ॥ ५२ ॥
विक्षरो रोहितो मार्गो हेतु र्दामोदरः सहः ।
महीधरो महाभागो वेगवा नमिताशनः (372) ॥ ५३ ॥
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः (383) ॥ ५४ ॥