वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
४५४ वीरमित्रोदयस्य राजनीतिप्रकाशे
छिन्नज्वालोऽथ वा रोदी नेष्टः सर्वेषु पावकः ।
सुसंहतशिखः शस्त ऊर्ध्वं प्रज्वलितोऽथ वा ॥
लेलिहानः शुभः कुन्ददीप्तिमान् वरदोऽनलः ।
एवंविधः सदैवाथ यज्ञे वैश्वानरो हितः ॥
यात्रायां शक्रकेतौ च सर्वकार्येषु सिद्धिदः ।
न्यूना या वहते धारा मानात्सर्पिर्न सा शुभा ॥
नाधिका शस्यते विप्र दुर्भिक्षकलिकारिका ।
त्रुट्यते वहमाना या शाम्यते वा हुताशनः ॥
सापि चान्यं नृपं त्विच्छेद्या च धारा पतेद्बहिः ।
ऋजुनादा महारूपा मनोज्ञा प्रियकारिका ॥
सुवर्णा हेमवर्णा च धारा राज्यविवृद्धये ।
सन्तता पतते या च तनोतीव च पावकम् ॥
तनोति नृप राष्ट्रं सा वसोर्धारा न संशयः ।
सुगन्धि स्वस्थं विमलं कृमिकीटविवर्जितम् ॥
शस्यते वसुधारायां सर्पिर्गव्यं च पूजितम् ।
अभावाद्गव्यमाज्यं वा होतव्यं च सुशोभनम् ॥
घृतक्षौद्रपयोधारा सर्वपीडानिवारिणी ।
गुडूचीशकलैर्होमः सहकारदलैः शुभः ॥
अश्वत्थमालतीदूर्वा आयुरारोग्यपुत्रदाः ।
सौभाग्यं च श्रियं देवी प्रयच्छत्यविचारणात् ॥
आर्क्याद्या वा शुभा वत्स सफलाः सार्वकामिकाः
होतव्याः सर्वकालं तु सातत्यात्समिधो नृप ॥
सर्वकालं घृतं प्रोक्तं निमित्ते च निमित्ततः ।
विशुद्धे सर्पिषो यानि तानि चात्र विचारयेत् ॥
ज्वालावच्च शुभं गन्धं सर्वहोमेषु लक्षयेत् ।
वसोर्धाराया माहात्म्यम् । ४५५
संयतैः संयताहारैः सर्वशास्त्रार्थपारगैः ॥
जपहोमरतैर्भूप धारा देया तु तद्विधैः ।
पाखण्डविकलान् लुब्धान् धर्मापेतान् बहिष्कृतान् ॥
सर्वकालप्रवादांश्च न वदेन्नावलोकयेत् ।
मृत्युञ्जयमहामन्त्रं चतुर्थ्यन्तं जपेत्तथा ॥
भाग्यवान् नित्यहोमे तु अन्यथा विफलं भवेत् ।
सामान्या या भवेद्धारा तत्र जप्यं शतं शतम् ॥
प्रातर्मध्याह्नसन्ध्यासु सर्वकामसमृद्धये ।
वसुद्रव्यं घृतं वाज्यममृतं हविष्कामिकम् ॥
तस्य धारा सदा देया वसोर्धारा हि सा मता ।
वसुनापत्यकामेन दक्षेण च महात्मना ॥
मया च विष्णुना शक्र रुद्रेण च सहोमया ।
आत्मानं च स्वरूपेण धारायां तु प्रपातितम् ॥
देवी सान्निध्यमायाता सर्वकामप्रदायिका ।
तस्मात्त्वमपि राजेन्द्र वसोर्धारां प्रदापय ॥
नातः परतरं पुण्यं विद्यते नृपसत्तम ।
वसोर्धाराप्रदानस्य एकाहमपि यद्भवेत् ॥
नृपेण पुष्टिकामेन परराज्यजिगीषुणा ।
देया धारा सदा वत्स रिपुनाशाय विद्धि ताम् ॥
विच्छेदो नित्यहोमस्य न कार्यस्तु कदाचन ।
महादोषमवाप्नोति यः कुर्याद्विमुखान् सुरान् ॥
द्रव्याभावे घृताभावे नृप तस्करजं भयम् ।
यदि नो वहते धारा तदा छिद्रं न विद्यते ॥
होमं कृत्वा क्षमापेत देवं देवीं नृपोत्तम ।
पुनः प्राप्ते भवेद्वत्स प्रतिष्ठा विधिचोदिता ॥
४५६ वीरमित्रोदयस्थ राजनीतिप्रकाशे
महत्याश्विनमासे तु अष्टमी नवमीषु च ।
कार्तिकीयां माघचैत्रे तु चित्रायां रोहिणीषु च ।
वैशाख्यां तु प्रदातव्या ज्यैष्ठयां ज्येष्ठस्य सत्तम ॥
आषाढे द्वादशी प्रोक्ता अष्टमी पूर्णिमा नभे ।
नभस्ये रोहिणी वत्स चतुर्थ्यां भौमवासरे ॥
सङ्क्रान्तिषु च सर्वासु गुरुसौरभवासु च ।
चन्द्रसूर्योपरागेषु प्रतिष्ठा यज्ञकर्मणि ॥
पुत्रोत्सवे प्रदातव्या जन्मपुष्पाभिषेचने ।
जन्मदिनाभिषेके पुष्पाभिषेके च ।
मार्गे व्रतनिबन्धे तु सुघोरे केतुदर्शने ।
ग्रहकृत्योपशमने धारा देया शुभावहा ॥
एवं यो वाहयेद्धारां शास्त्रदृष्टेन कर्मणा ।
तस्य भूः सिद्ध्यते सर्वा सनागा सहसागरा ॥
अश्वमेधसमं पुण्यं दिनहोमात्प्रजायते ।
वाजपेयं शतं रात्रावाग्निष्टोमशतं तथा ॥
आधयो व्याधयस्तस्य न भवन्ति कदाचन ।
आयुरारोग्यमैश्वर्यं तदन्ते च शिवो भवेत् ॥ इति ।
तथा,
हिमवद्धेमकूटे च विन्ध्ये माहेन्द्रपर्वते ।
वैदिशे तु जयन्ते वा महासेने च भूभृति ॥
गोपागिरौ महापुण्ये चित्रकूटेऽथ यामुने ।
कालञ्जरेऽथ वा काश्यां प्रयागे देवपर्वते ॥
उज्जयिन्यां च यो धारां दापयेद्वा महेश्वरि ।
एतेषु पुण्यदेशेषु विषुवायनेसङ्क्रमे ॥
पुष्करे नैमिषे वत्स देया पञ्चमुखेक्षिते ।
स्थानविशेषेण वसुधाराफलम् । ४५७
गिरौ धाराप्रदानेन ग्रहपीडा न जायते ॥
बहुवक्रगते देहे वत्सरं न भयं भवेत् ।
जन्मतारार्क्षपीडायां दत्ता धारा व्यपोहति ॥
जम्बूमार्गे सदापूजा धारापाते विशिष्यते ।
सर्वकामानवाप्नोति नर्मदायां महामुने ।
धारादानेन गङ्गायां कालिन्द्यां वा महाह्रदे ॥
दत्त्वा विधानविहितं न भयं जायते क्वचित् ।
शनिसूर्यकृतां पीडां गुरुभौमीं व्यपोहति ॥
यथापूजाविधानेन प्रतिसंवत्सरे स्थिता ।
पीडां निवारयेद्वत्स संवत्सरग्रहोद्भवाम् ॥
मन्त्रं जपेत्सङ्कथितं न भयं विद्यते क्वचित् ।
एकान्ते दुष्टरहिते पापजन्तुविवर्जिते ॥
धाराहोमश्च कर्त्तव्यो यथोक्तः श्रियमिच्छता ।
जिह्वायां पातयेद्धारां न द्रुतां न विलम्बिताम् ॥
सावधानेन मनसा मृत्युञ्जयनिपातिता ।
मन्त्रयोगाद्भवेत्सिद्धिर्दृष्टादृष्टप्रसाधिका ॥
ग्रहोद्भवां हरेत्पीडां त्रिविधामपि दुःस्थिताम् ।
ग्रहाश्च त्रिविधाः प्रोक्तास्तेषां मन्त्रा विधानतः ॥
अंशजा मूलमन्त्राश्च पीठपादगतास्तथा ।
होमकाले प्रयोक्तव्याः पूजाकाले तथैव च ॥
एवं सिद्धिमवाप्नोति इह स्वर्गापवर्गिकाम् ।
तावत्काले क्रियायोगाद्धारायां लभते मुने ॥
धारादानं प्रकर्त्तव्यं यत्र कुत्र घटादिभिः ।
तैर्मन्त्रैर्नित्यहोमे च पूर्वं च कथितो विधिः ॥ इति ।
इति देवीपुराणोक्तो वसोर्धाराविधिः ।
५८
४५८ वीरमित्रोदयस्य राजनीतिप्रकाशे
अथ शत्रुनाशनं कृत्तिकास्नानम् ।
विष्णुधर्मोत्तरे,
पुष्कर उवाच ।
कृतोपवासो याम्यर्क्षे सोपवासस्य भार्गव ।
पुरोधाः स्नपनं कुर्यात्कृत्तिकासु यथाविधि ॥
अकालमूलैः कलशैर्मृन्मयैरथ काञ्चनैः ।
उज्ज्वलैलक्षणैः पूर्णैस्तथा तीर्थोदकैः शुभैः ।
अग्निमन्थशिरीषाणां न्यग्रोधाश्वत्थयोरपि ॥
पत्रपूर्णैस्तथा युक्तैस्तिलैः कृष्णैर्द्विजोत्तम ।
वह्निं कुमारं शशिनं रुद्रं वरुणमेव च ॥
पूजयेत्कृत्तिकाश्चैव गन्धमाल्यान्नसम्पदा ।
पीतरक्तैस्तथा वर्णैर्घृतधूपैस्तथैव च ॥
दध्ना गव्येन लाजाभिरग्निमन्थेन चाप्यथ ।
कृसरोल्लोपिकाभिश्च अपूपैश्च पृथग्विधैः ॥
देवतानां यथोक्तानां प्रियङ्गुं जुहुयात्ततः ।
गर्दभाश्वमयूराणां लोमानि मनुजोत्तम ॥
अग्निमन्थगृहात् धूमं कृत्वा रुक्माङ्गदं मणिम् ।
धारयेद्दक्षिणां दद्याच्छक्त्या कनकमेव च ॥
श्वेतवासास्ततः पश्चात्पूजयेन्मधुसूदनम् ।
कर्मैतत्सर्वतः कृत्वा वह्नयाधानमथाप्नुयात् ॥
कर्मैतदुक्तं रिपुनाशकारि सर्वाग्निकर्मप्रसमृद्धिदं च ।
धन्यं यशस्यं च तथैव काम्यं नित्यं कृतं धर्मभृतां वरिष्ठ ॥
इति शत्रुनाशनं कृत्तिकास्नानम् ।
शत्रुनाशनं कर्मान्तरम् । ४५९
अथापरं शत्रुनाशनं कर्म ।
विष्णुधर्मोत्तरे,
राम उवाच ।
अग्न्याधेयमवाप्नोति शत्रुनाशमथापि वा ।
स्वेच्छया कर्मणा केन सदा यादोनृपात्मज ॥
शत्रुनाशकरं कर्म कथयस्व तथाऽपरम् ।
तदहं श्रोतुमिच्छामि तत्र श्रद्धा सदा मम ॥
पुष्कर उवाच ।
कृतोपवासो याम्यर्थे कृत्तिकासु सदैव तु ।
पूजयेद्वासुदेवं तु कुङ्कुमेन सुगन्धिना ॥
रक्तैश्च कुसुमैर्हृद्यैर्धूपं दद्याच्च गुग्गुलम् ।
घृतेन दीपं दद्याच्च रक्तवर्णं तथैव च ॥
निवेदनीयं देवाय तथा सर्वं निवेदयेत् ।
होतव्याश्च समिद्धेऽग्नौ तथैवासुरसर्षपाः ।
आयुधानि प्रदेयानि ब्राह्मणेभ्यस्तु दक्षिणा ॥
कर्मैतदुक्तं रिपुनाशकारि कार्यं सदा शत्रुगणप्रमाथि ।
कृत्वैतदग्र्यं रिपुनाशमाशु प्राप्नोति राजा न हि संशयोऽत्र॥
इति शत्रुनाशनं कर्मः ।
अथ शत्रुनाशिनी घृतकम्बलशान्तिः ।
तत्र विष्णुधर्मोत्तरे,
राम उवाच ।
शान्तिमाचक्ष्व मां देव घृतकम्बलसंज्ञिताम् ।
कार्या या पार्थिवेन्द्राणां विजयाय पुरोधसा ॥
४६० वीरमित्रोदयस्य राजनीतिप्रकाशे
पुष्कर उवाच ।
पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे ।
प्रागुदक्प्रवणे देशे शान्त्यगारं तु कारयेत् ॥
शुभमत्यन्तविस्तीर्णं नानावस्त्रसमन्वितम् ।
पुनर्वसुगते चन्द्रे तत्र यायान्नराधिपः ॥
पुरस्कृत्य महाभाग सांवत्सरपुरोहितौ ।
आभिषेचनिका मन्त्रा ये मयाभिहिताः पुरा ॥
देवादयस्तु तेषां वै स्थानं तत्र प्रकल्पयेत् ।
ते च मन्त्रा राज्याभिषेकप्रकरणे पठिताः ।
गन्धमण्डलकर्मुख्यैर्यथास्थानं पुरोहितः ॥
आवाहनं ततः कुर्यात्स्नातस्तत्र सुखोषितः ।
देवादीनां तु सर्वेषां ब्राह्मणैः सहितो द्विज ॥
आवाहितानां सर्वेषां गन्धमाल्यान्नसम्पदा ।
दैववित्पूजनं कुर्यात्तथा नृपपुरोहितौ ॥
एवं सम्पूजनं कृत्वा सोपवासास्तु ते त्रयः ।
स्वप्युश्च तां निशां तत्र सर्व एव समाहिताः ॥
ततो नैर्ऋतकं कर्म प्रदिशेत्तु पुरोहितः ।
नैर्ऋतकं कर्म, बलिदानादि ।
कृत्वा त्रिभागशेषायां रात्रौ कुर्यात्तु शान्तिकम् ॥
हुत्वा दशगुणं तत्र स्नापयेत्तं नराधिपम् ।
पूर्वमेव तथा स्नातं सिद्धार्थोत्सादितं तथा ॥
पूर्णेन घृतकुम्भेन मन्त्रेणानेन कालवित् ।
आज्यं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम् ॥
आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः ।
भौमान्तरिक्षद्दिव्यं वा यत्ते किल्बिषमागतम् ॥
विष्णुधर्मोत्तरोक्ता घृतकम्बलशान्तिः । ४६१
सर्वं तदाज्यसंस्पर्शात्प्रणाशमुपगच्छतु ।
ततो विरूक्षितं स्नातं स्नानवेद्यां नराधिपम् ॥
गच्छेतां तु पुरस्कृत्य सांवत्सरपुरोहितौ ।
स्नानवेदी प्रकर्तव्या लाजाकुसुममण्डिता ॥
चतुर्भिः पूर्णकुम्भैस्तु विदिक्षु ह्युपशोभिता ।
चत्वारि तस्याश्चर्माणि प्राग्ग्रीवाणि समास्तरेत् ॥
वृषस्य द्वीपिनश्चैव सिंहशार्दूलयोस्तथा ।
भद्रासनं न्यसेद्राम तेषामुपरि चर्मणाम् ॥
स्वासीनं नृपतिं तत्र वस्त्रैराच्छादयेन्नवैः ।
कार्पासिकैस्ततः पश्चादाविकैः कृमिजैस्ततः ॥
ततस्तु सर्पिषः कुम्भैः पूर्णैस्तमभिषेचयेत् ।
कुम्भाष्टकं तु कर्त्तव्यमष्टाविंशतिरेव वा ॥
अथ वाष्टशतं राम वृद्धिरेषा गुणोत्तरा ।
ततोऽपनीय वस्त्राणि तस्यां वेद्यां पुरोहितः ॥
शूलेन मृन्मयं भिन्द्याच्छत्रुं क्रोधसमन्वितः ।
राज्ञस्तु कलशं दद्यात्स्वयं सांवत्सरस्ततः ॥
आभिषेचनमन्त्रेण स्वर्चितं कल्पितं दृढम् ।
ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् ॥
जीवां विश्वेश्वरीं पाठां समङ्गामभयं तथा ।
सहां च सहदेवीं च पूर्णकोशां शतावरीम् ॥
अरिष्टिकां शिवां भद्रां कलशं तत्र विन्यसेत् ।
ब्राह्मीं क्षेमामजां चैव सर्वबीजानि काञ्चनम् ॥
मङ्गल्याश्च यथालाभं सर्वौषध्यो रसस्तथा ।
रत्नानि सर्वगन्धाश्च बिल्वं च सविकङ्कतम् ॥
एवं स्नातो घृते दृष्ट्वा वदनं दर्पणं तथा ।
४६२ वीरमित्रोदयस्य राजनीतिप्रकाशे
मङ्गलालम्भनं कृत्वा धौतवासाः समाहितः ॥
आयुधाभ्यर्चनं कार्यं वाहनाभ्यर्चनं तथा ॥
राजचिह्णार्चनं कृत्वा ह्यलङ्कृत्य स्वकां तनुम् ।
अनुलेपनमाद्याद्गन्धद्वारेतिमन्त्रितम् ॥
शुभं चन्दनमादद्याच्छ्रीसूक्तेनाभिमन्त्रितम् ।
श्रियं धातर्मयि धेहि मन्त्रः सुमनसां भवेत् ॥
रायस्पोषेति च तथा मन्त्रोऽलङ्करणे स्मृतः ।
ततोऽनुलिप्तः सुरभिस्स्रग्वी रुचिरभूषणः ॥
केशवाभ्यर्चनं कृत्वा वह्निस्थानं ततो व्रजेत् ।
वन्हेरुत्तराद्दिग्भागे तथा प्रागुक्तचर्मणाम् ॥
सिंहासनं न्यसेत्पृष्ठे परार्द्ध्यास्तरणैर्युतम् ।
ततस्तु राम चर्माणि प्राग्ग्रीवाणि तु विन्यसेत् ॥
वृषस्य वृषदंशस्य करिणः पृषतस्य च ।
तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ॥
ध्रुवा द्यौरितिमन्त्रेण नृपं तत्रोपवेशयेत् ।
दर्भपाणिस्ततो राजा तथैव च पुरोहितः ॥
तयोर्हस्तगतावग्रे दर्भौ सङ्ग्रन्थयेद्द्विजः ।
ततः पुरोधा जुहुयाद्ब्राह्मैर्मधुघृतं शुचिः ॥
रौद्रवैष्णववायव्यशाक्रसौम्यैस्सवारुणैः ।
बार्हस्पत्यैस्ततः कुर्यात्तन्त्रमुत्तरसंज्ञितम् ॥
दैवज्ञः प्रयतः कुर्याद्देवतानां विसर्जनम् ।
यान्तु देवगणाः सर्वे सानुगास्सपरिच्छदाः ॥
१ अत्र—"अभ्यर्चनं ततः कुर्याद्देवादीनां पृथक्पृथक् । तेषामेव
ततो वह्नौ चतुर्थ्यन्तैस्तु नामभिः ॥ ओङ्कारपूतं जुहुयाद्घृतं बहु
पुरोहितः ।” इत्यधिकं मुद्रितविष्णुधर्मोत्तरे वर्तते ।
आथर्वणपरिशिष्टोक्ता घृतकम्बलशान्तिः। ४६३
आदाय पार्थिवात्पूजां पुनरागमनाय च ।
ततश्च पूजयेद्राजा सांवत्सरपुरोहितौ ॥
घनेन ब्राह्मणानां च ततो दद्यात्तु दक्षिणाम् ।
मङ्गलालम्भनं कृत्वा खड्गपाणिर्गृहान्व्रजेत् ॥
शान्तिघोषेण महता राजा कुञ्जरगस्ततः ।
शान्तिर्मया तेऽभिहिता नृवीर धन्या यशस्या रिपुनाशिनी च ।
सुखावहा राष्ट्रविवृद्धिकर्त्री कार्या नृपैर्धर्मविवृद्धिदा च ॥ इति ।
इति विष्णुधर्मोत्तरे घृतकम्बलशान्तिः ।
अथाथर्वणपरिशिष्टोक्तो घृतकम्बलः ।
ततो ज्येष्ठं घृतकम्बलं ब्रह्मणः पुत्रमकरोत्त्तस्य ह वा एतस्य
घृतकम्बलस्य सावित्रीगणशरीरस्य शान्तातीयः शिरः त्रिषष्ठीयं
मुखं रुद्रगणौ चक्षुषी घृतलिङ्ग आस्यं नैऋन्तो जिह्वा दन्तौष्ठावभ-
यापराजितौ कृत्यादूषणवातनौ श्रोत्रे शर्मवर्मस्वस्त्ययनौ बाहू
मातृनामावास्तोष्पत्यौ पादौ पायुश्च भैषष्ठंन्यायः (?) प्राणा-
पानान्विति मीमांसन्त इत्येष ह वै ज्येष्ठो घृतकम्बलो ब्रह्मणः
पुत्रोऽपराजितगणेनेष्टेन्द्रोऽसुरानजयद्राज्यमलक्ष्मीमरातिं दुष्ट-
स्वमदुर्भूर्तान्यजयद्यथा चैवंविद्वान् घृतकम्बलं कुरुते सर्व-
कामानाप्नोति सर्वव्याधिरहितो भवतीति ब्रह्मलोकमवाप्नो-
तीति ब्राह्मणम् ।
यदा सर्वमिदं व्याप्तमसुरैर्नावशेषितम् ।
स्थातुं देवाः पराभूतास्तेऽथर्वाणमुपागताः ॥
कर्म स्वकं कुरुष्व त्वं यद्भृग्वङ्गिरसोर्म्मतम् ।
असुराणां वधार्थायेत्युक्तः कर्त्ताऽथ सोऽभवत् ॥
परचक्रोपसृष्टस्य राज्ञो विजयमिच्छतः ।
प्रतिराष्ट्रस्य वा भूयः श्रीकामस्येच्छतः श्रियम् ॥
४६४ वीरमित्रोदयस्य राजनीतिप्रकाशे
प्रादुर्भावेऽद्भुतानां तु ग्रहाणां विग्रहे तथा ।
शङ्कमानोऽभिचाराद्वा कारयेद्घृतकम्बलम् ॥
घृतमात्रा तु विज्ञेया मागधप्रस्थसम्मिता ।
शतानि पञ्च द्रोणानां पलैकशतमेव च ॥
घृतप्रमाणं वक्ष्यामि माषकं पञ्च कृष्णलः ।
माषकानि चतुःषष्टिः पलमेकं विधीयते ॥
द्वात्रिंशत्पलिकं प्रस्थं मागधैः परिकीर्त्तितम् ।
आढकं तु चतुःप्रस्थञ्चतुर्भिर्द्रोणमाढकैः ॥
द्रोणप्रमाणं विज्ञयं ब्रह्मणा निर्मितं पुरा ।
द्वादशाभ्यधिकैर्नित्यं पलानां पञ्चभिः शतैः ॥
घृतं द्रोणशतं वाथ षष्टिद्रोणावरं तथा ।
यथाशक्ति प्रयुञ्जीत घृतं कृत्वा तु भागशः ॥
चतुर्भागोऽभिषेकाय चतुर्भागस्तु हूयते ।
भागो देयः सदस्येभ्यः कर्त्ता भागेन युज्यते ॥
आविकं कम्बलं पूर्णं वासोऽर्धमुपकल्पितम् ।
प्रावृत्य स्नापयेदेनमित्युवाच बृहस्पतिः ॥
न राक्षसा न गन्धर्वा न पिशाचा न चासुराः ।
क्रूराः पुरुषधर्मज्ञा न हिंसन्ति घृतार्चितम् ॥
न हिंसन्ति घृतार्चितमिति ।
इत्याथर्वणपरिशिष्टोक्तो घृतकम्बलः ।
अथ प्रकीर्णकम् ।
तत्र नानास्मृतिपुराणादिषूक्ता राज्ञो धर्मा निरूपिताः ।
अथेदानीं तस्यावश्यं श्रोतव्यत्वेन काचित्काचिद्राजनीतिर्निरू-
प्यते । तत्र—
· प्रकीर्णके महाभारतीथविदुरोक्तनीतयः । ४६५
महाभारते,
सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः ।
अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥
तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया ।
तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥
जाग्रतो दह्यमानस्य श्रेयो यदनुपश्यसि ।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥
यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः ।
सर्वेन्द्रियाण्यप्रकृतिं गतानि किंवक्ष्यतीत्येव हि मेऽद्य चिन्ता ॥
इतिधृतराष्ट्रप्रश्ने विदुरवाक्यम्—
अभियुक्तं बलवता दुर्बलं हीनसाधनम् ।
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥
कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप ।
कच्चिन्न परवित्तेषु गृध्यन्न परितप्यसे ॥
इति विदुरप्रश्ने धृतराष्ट्रवाक्यम्—
श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः ।
अस्मिन् राजर्षिवंशे हि त्वमेकः प्राज्ञसम्मतः ॥
ततश्च विदुरस्योत्तरवाक्यम्—
निषेवते प्रशस्तानि निन्दितानि न सेवते ।
अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् ॥
क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भोऽमान्यमानिता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥
क्रोधः परद्वेषः । हर्षः सुखम् । तत्कार्यं मुखादिविकारो
वा । दर्प अन्तःसारविशेषः । ह्रीस्तम्भो निर्लज्जता । अमा-
न्यमानिता, अमान्यानां मानयितुमयोग्यानां सम्मानकरणम् ।
५९
४६६ वीरमित्रोदयस्य राजनीतिप्रकाशे
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः ।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥
यस्य सञ्चारिणी प्रज्ञा धर्मार्थावनुवर्तते ।
कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥
सञ्चारिणी, परोक्तस्य युक्तिसिद्धस्यार्थस्य श्रवणानन्तरं
स्वमात्रबुद्धार्थग्रहरहिता । संसारिणीतिपाठे सम्यक्प्रसरणशी-
ला । कामादर्थं वृणीत इति । कामापेक्षया धर्मसाधनत्वेनार्थस्य
प्राधान्यमनुसृत्यार्थहान्या यः कामं न सेवत इतिभावः ।
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते ।
न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥
क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थं भजते च कामान्।
नासम्पृष्टो ह्युपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य ॥
असम्पृष्टः परार्थे नोपयुङ्क्ते, नोपक्रमते ।
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः ।
अबन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ॥
नान्तर्वसति कर्मण इति । कर्मणः अन्तः कर्मणो मध्ये न
वसांते नोपरमत इत्यर्थः ।
आर्यकर्माणि रज्यन्ते भूतिकर्माणि कुर्वते ।
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥
न हृष्यत्यात्मसम्माने नावमानेन तप्यते ।
गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥
प्रकीर्णके महाभारतीयाविदुरोक्तनीतयः । ४६७
तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् ।
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥
प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान् ।
आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥
प्रतिभानवान् धृष्टः । यद्वा—
प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता । तद्वान् ।
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।
असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥
तथा,
अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव च ।
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥
असमुन्नद्धः, गर्वरहितः । एवमुपादेयत्वेन पण्डितलक्षणा-
न्यभिधाय हेयत्वेन मूढलक्षणान्यपि तत्रैवोक्तानि ।
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति ।
मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥
अकामान् कामयति यः कामयानान् परित्यजेत् ।
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥
संसारयति कृत्यानि सर्वत्र विचिकित्सते ।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥
कृत्यानि कार्याणि । संसारयति आरभते । सर्वत्र, तेषु
कार्येषु । विचिकित्सते, इदं मदिष्टसाधनं भवति न वा, इदं म-
च्छक्यं भवति न वेत्यादिसन्देहवान् भवति ।
४६८ वीरमित्रोदयस्य राजनीतिप्रकाशे
श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति ।
सुहृन्मित्रं न भजते तमाहुर्मूढचेतसम् ॥
अनाहूतः प्रविशति अपृष्टो बहु भाषते ।
अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥
परं क्षिपति दोषेण वर्त्तमानः स्वयं तथा ।
यश्च क्रुद्ध्यत्यनीशानः स च मूढतमो नरः ॥
स्वयं तथा वर्त्तमानः, दोषवान् ।
आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् ।
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥
नैष्कर्म्यात् कर्माकरणात् ।
अशिष्यं शास्ति यो राजन् यश्च शून्यमुपासते ।
कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥
कदर्यं, धने सत्यपि दानभोगरहितम् ।
तथा,
एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥
सम्पन्नं, पक्कं मिष्टपकम् ।
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।
भोक्तारो विप्रमुच्यन्ते कर्त्ता दोषेण लिप्यते ॥
महान् बहुतरो जनः परिवारा यस्य स महाजनः ।
एकं हन्यान्न वा हन्यादिषुर्युक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।
पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव ॥
एकया, बुद्ध्या दण्डनीत्या वा । द्वे, कार्याकार्ये । त्रीन्,
प्रकीर्णके महाभारतविदुरोक्तनीतयः । ४६१
मित्रोदासीनशत्रून् । चतुर्भिः, सामदानदण्डभेदैरुपायैः । पञ्च,
पञ्च ज्ञानेन्द्रियाणि च पञ्च कर्मेन्द्रियाणि च । षट्, सन्धिवि-
ग्रहयानासनद्वैधीभावसंश्रयाख्यान् षड्गुणान् । सप्त—
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् ।
महच्च दण्डपारुष्यमर्थदूषणमेव च ॥
इतिव्यसनानि ।
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः ॥
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् ।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥
एकमेवाद्वितीयं तद्यद्राजन्नावबुद्ध्यसे ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥
एकमेव सत्यं सत्यवचनं स्वर्गस्य सोपानम् ।
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥
सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं धनम् ।
अक्षमावान् परं दोषैरात्मानं चैव योजयेत् ॥
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।
विद्यैका परमा तृप्तिरहिंसैका सुखावहा ॥
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥
ब्राह्मणं, ब्रह्म नयतीति ब्राह्मणः, णीञ्प्रापण इत्यस्मात् ।
ब्रह्मज्ञः परिव्राट् तस्य परिभ्रमणस्योक्तत्वात् ।
द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते ।
अब्रुवन् परुषं किञ्चिदसतोऽनर्चयंस्तथा ॥
४७० वीरमित्रोदयस्य राजनीतिप्रकाशे
द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ ।
स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ ।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥
द्वाविमौ न विराजते विपरीतेन कर्मणा ।
गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥
द्वाविमौ पुरुषौ राजन् स्वर्गस्योपरि तिष्ठतः ।
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥
न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ ।
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥
द्वावम्भसि विनिक्षेप्यौ गाढं बद्ध्वा गले शिलाम् ।
धनिनं चाप्रदातारं दरिद्रं चातपस्विनम् ॥
त्रयोपाया मनुष्याणां श्रूयन्ते भरतर्षभ ।
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥
त्रयोपाया इति छान्दसः सन्धिः ।
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।
नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥
त्रय एवाधना राजन् भार्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥
हरणं च परस्वानां परदाराभिमर्षणम् ।
सुहृदश्च परित्यागस्त्रयो दोषा भयप्रदाः ॥
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् ॥
भक्तं च भजमानं च तवास्मीति च वादिनम् ।
त्रीनेतान् शरणं प्राप्तान् विषमेऽपि न सन्त्यजेत् ॥
प्रकीर्णके महाभारतीयदिदुरोक्तनीतयः । ४७१
वरप्रदानं राज्यं च पुत्रजन्म च भारत ।
शत्रोश्च मोक्षणं कृच्छ्रात्त्रीणि चैकं च तत्समम् ॥
चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् ।
अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैरलसैश्चारणैश्च ॥
चत्वारि ते तात गृहे वसन्तु श्रेयोऽभिजुष्टस्य गृहस्थधर्मे ।
वृद्धज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥
चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः ।
पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥
सद्यस्कानि, सद्यःफलानि ।
देवतानां च सङ्कल्पमनुभावं च धीमताम् ।
विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥
सङ्कल्पं चिकीर्षितम् ।
पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः ।
पिता माताग्निर्रात्मा च गुरुश्च भरतर्षभ ॥
पञ्चैव पूजयंल्लोके यशः प्राप्नोति केवलम् ।
देवान् पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥
पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि ।
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् ।
ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥
दृतेः चर्मपुटकस्य ।
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ॥
षडिमान् पुरुषो जह्याद्भिन्नां नावमिवार्णवे ।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥
४७२ वीरमित्रोदयस्य राजनीतिप्रकाशे
अरक्षितारं राजानं भार्या चाप्रियवादिनीम् ।
ग्रामकामं च गोपालं वनकामं च नापितम् ॥
षडेव तु गुणाः पुंसा न हातव्याः कदाचन ।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥
षडिमानि विनश्यन्ति मुहूर्त्तानवेक्षणात् ।
गावः सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः ॥
षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् ।
आचार्यं शिक्षिताः शिष्याः कृतकृत्या नरेश्वरम् ॥
नारीं विगतकामाश्च कृतार्थाश्च प्रयोजकम् ।
नावं निस्तीर्णकान्तारा आतुराश्च चिकित्सकम् ॥
निस्तीर्णकान्ताराः, निस्तीर्णदुर्गमजलमार्गाः ।
आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह सम्प्रयोगः ।
स्वप्रत्यया वृत्तिरभीतवासः षड्जीवलोकस्य सुखानि राजन् ॥
स्वप्रत्यया, स्वाधीना । "प्रत्ययोऽधीनशपथज्ञानविश्वासहे-
तुषु"इति कोषः । वृत्तिः जीविका "वृत्तिर्वर्त्तनजीवने"इत्यमरः ।
ईर्ष्या घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥
अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि तात॥
षण्णामात्मनि नित्यानामैश्वर्यमधिगच्छति ।
न स पापैः कुतोऽनर्थैर्युज्येत विजितेन्द्रियः ॥
षण्णाम्, इन्द्रियाणाम् । ऐश्वर्यं, वशित्वम्
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते ।
चौराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥
प्रमदाः काममानेषु यजमानेषु याजकाः ।
प्रकीर्णके महाभारतीयाविदुरोक्तनीतयः । ४७३
राजा विवदमानेषु नित्यं मूर्खेषु पण्डितः ॥
सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः ।
प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः ॥
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् ।
महच्च दण्डपारुष्यमर्थदूषणमेव च ॥
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।
ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश्च विरुद्ध्यते ॥
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥
नैतान् स्मरति कृत्येषु याचितश्चाभ्यसूयते ।
एतान्दोषान्नरः प्राज्ञो बुध्येद्बुद्ध्वा विसर्जयेत् ॥
अष्टाविमानि हर्षस्य नवनीतानि भारत ।
वर्त्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥
समागमश्च सखिभिर्महांश्चैव धनागमः ।
पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने ॥
समये च प्रियालापः स्वयूथ्येषु समुन्नतिः ।
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥
समये हर्षादिसमये ।
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् ।
क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेदः स परः कविः ॥
नवद्वारमिति । चक्षुःश्रोत्रनासामुखपायूपस्थरूपनवद्वारम् ।
त्रिस्थूणं, त्रीणि सत्त्वरजस्तमांसि वातपित्तकफा वा स्थूणा
आधारस्तम्भा यस्य तत् । पञ्चसाक्षिकं, पञ्च ज्ञानेन्द्रियाणि
६०