वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 464, कुल 490 में से
संदर्भ में पढ़ें४६८ वीरमित्रोदयस्य राजनीतिप्रकाशे
श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति ।
सुहृन्मित्रं न भजते तमाहुर्मूढचेतसम् ॥
अनाहूतः प्रविशति अपृष्टो बहु भाषते ।
अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥
परं क्षिपति दोषेण वर्त्तमानः स्वयं तथा ।
यश्च क्रुद्ध्यत्यनीशानः स च मूढतमो नरः ॥
स्वयं तथा वर्त्तमानः, दोषवान् ।
आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् ।
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥
नैष्कर्म्यात् कर्माकरणात् ।
अशिष्यं शास्ति यो राजन् यश्च शून्यमुपासते ।
कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥
कदर्यं, धने सत्यपि दानभोगरहितम् ।
तथा,
एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥
सम्पन्नं, पक्कं मिष्टपकम् ।
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।
भोक्तारो विप्रमुच्यन्ते कर्त्ता दोषेण लिप्यते ॥
महान् बहुतरो जनः परिवारा यस्य स महाजनः ।
एकं हन्यान्न वा हन्यादिषुर्युक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।
पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव ॥
एकया, बुद्ध्या दण्डनीत्या वा । द्वे, कार्याकार्ये । त्रीन्,