वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 451, कुल 490 में से
संदर्भ में पढ़ेंवसोर्धाराया माहात्म्यम् । ४५५
संयतैः संयताहारैः सर्वशास्त्रार्थपारगैः ॥
जपहोमरतैर्भूप धारा देया तु तद्विधैः ।
पाखण्डविकलान् लुब्धान् धर्मापेतान् बहिष्कृतान् ॥
सर्वकालप्रवादांश्च न वदेन्नावलोकयेत् ।
मृत्युञ्जयमहामन्त्रं चतुर्थ्यन्तं जपेत्तथा ॥
भाग्यवान् नित्यहोमे तु अन्यथा विफलं भवेत् ।
सामान्या या भवेद्धारा तत्र जप्यं शतं शतम् ॥
प्रातर्मध्याह्नसन्ध्यासु सर्वकामसमृद्धये ।
वसुद्रव्यं घृतं वाज्यममृतं हविष्कामिकम् ॥
तस्य धारा सदा देया वसोर्धारा हि सा मता ।
वसुनापत्यकामेन दक्षेण च महात्मना ॥
मया च विष्णुना शक्र रुद्रेण च सहोमया ।
आत्मानं च स्वरूपेण धारायां तु प्रपातितम् ॥
देवी सान्निध्यमायाता सर्वकामप्रदायिका ।
तस्मात्त्वमपि राजेन्द्र वसोर्धारां प्रदापय ॥
नातः परतरं पुण्यं विद्यते नृपसत्तम ।
वसोर्धाराप्रदानस्य एकाहमपि यद्भवेत् ॥
नृपेण पुष्टिकामेन परराज्यजिगीषुणा ।
देया धारा सदा वत्स रिपुनाशाय विद्धि ताम् ॥
विच्छेदो नित्यहोमस्य न कार्यस्तु कदाचन ।
महादोषमवाप्नोति यः कुर्याद्विमुखान् सुरान् ॥
द्रव्याभावे घृताभावे नृप तस्करजं भयम् ।
यदि नो वहते धारा तदा छिद्रं न विद्यते ॥
होमं कृत्वा क्षमापेत देवं देवीं नृपोत्तम ।
पुनः प्राप्ते भवेद्वत्स प्रतिष्ठा विधिचोदिता ॥